SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। मुमुक्षून् परमाप्तसेवायां व्यापारयतियो जन्मान्तरतत्त्वभावनभुवा बोधेन बुद्ध्वा स्वयं, श्रेयोमार्गमपास्य घातिदुरितं साक्षादशेषं विदन् । सद्यस्तीर्थकरत्वपकित्रमगिरा कामं निरीहो जगत्, तत्त्वं शास्ति शिवार्थिभिः स भगवानाप्तोत्तमः सेव्यताम् १५ सेव्यतामाराध्यताम् । कोसौ ? स आप्तोत्तमो भगवानिन्द्रादीनां पूज्यः । कैः ? शिवार्थिभिः । यः किम् ? यः शास्ति । किम् ? जगद् भव्यलोकम् । किम् ? तत्त्वं जीवादिवस्तु । कथम् ? कामं यथेष्टम् । किंविशिष्टः सन् ? निरीहः शासनतत्फलवाञ्छारहितः, तन्निमित्तमोहप्रक्षयात् । कया? सद्यस्तीर्थकरत्वपक्त्रिमगिरा, सद्यः साक्षादशेषवेदनक्षणे जातेन तीर्थकरत्वपाकेन तीर्थकरत्वाख्यपुण्यविशेषोदयेन निवृतया वाचा । किं कुर्वन् ? विदन् जानन् । किं तत् ? अशेष सर्वम् । कथम् ? साक्षात् प्रत्यक्षम् । किं कृत्वा ? अपास्य विश्लेष्य । किं तत् ? घातिदुरितं मोहनीयज्ञानावरणदर्शनावरणान्तरायाख्यकर्मचतुष्टयम् । किं कृत्वा ? बुद्ध्वा ज्ञात्वा । कम् ? श्रेयोमार्ग मोक्षोपायं । कथम् ? स्वयं परोपदेशमन्तरेण । केन ? बोधेन ज्ञानेन । किं. विशिष्टेन ? जन्मान्तरतत्त्वभावनभुवा । जन्मान्तरेऽन्यस्मिन्भवे तत्त्वभावनं वस्तुयाथात्म्याभ्यासः, तस्माद्भवतीति तद्भूस्तेन । ऐदंयुगीनानां तथाविधाप्तनिर्णयः कुतः स्यादित्यारेकायामाह शिष्टानुशिष्टात् सोत्यक्षोप्यागमायुक्तिसंगमात् । पूर्वापराविरुद्धाच वेद्यतेद्यतनैरपि ॥ १६ ॥ वेद्यते निश्चीयते । कोसौ ? स आप्तोत्तमः । कैः ? अद्यनतैः सांप्रतिकैः श्रेयोर्थिभिः। किं पुनस्तत्कालीनै रित्यपिशब्दार्थः । किंविशिष्टोपि ? अत्यक्षोपि चक्षुरादीनामलक्ष्योपि । कस्मात् ? आगमात् "आप्तेनोत्सन्नदोषेण सर्वज्ञेनागमेशिना। भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत्॥" इत्यादिकात् । किंविशिष्टात् ? शिष्टानुशिष्टात् । शिष्टा आप्तोपदेशसंपादितशिक्षाविशेषाः स्वामिसमन्तभद्रादयः । तैरनुशिष्टाद् गुरुपर्वक्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy