________________
९६
अनगारधर्मामृते
मेणोपदिष्टात् । पुनः किंविशिष्टात् ? युक्तिसंगमात् युक्त्या संयुज्यमानात् । युक्तिश्चात्र 'आप्तागमः प्रमाणं स्याद्यथावद्वस्तुसूचकत्वात्' इत्या. दिका । पुनरपि किंविशिष्टात् ? पूर्वापराविरुद्धात् , "न हिंस्यात्सर्वभूता. नी"ति, “यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवे"ति चेत्यादिवन पूर्वापरविरोधसहितात् । यतो वचसो दुष्टस्वादुष्टत्वे तथाविधाश्रयवशाअवतस्ततः शिष्टानुशिष्टादित्युक्तम् । अत एवेदमाह
विशिष्टमपि दुष्ट स्याद्वचो दुष्टाशयाश्रयम् ।
घनाम्बुवत्तदेवोच्चैर्वन्धं स्यात्तीर्थगं पुनः ॥ १७ ॥ । स्यात् । किं तत् ? वचः । किंविशिष्टम् ? दुष्टमऽश्रद्धेयतया विपरीतार्थकारि । किंविशिष्टं ? विशिष्टमपि आप्तोपदिष्टं, किं पुनरितरत् । किंविशिष्टं सत् ? दुष्टाशयाश्रयं दर्शनमोहोदयाकान्तचिचपुरुषस्थम् । किंवत् ? घनाम्बुवत् । घनस्य गङ्गाम्बुवर्षिमेघस्य जलं पथ्यमपि दुष्टाधारगतमपथ्यं यथा । तदेव वचः पुनरुच्चैर्वन्धमत्यन्तपूज्यं स्यात् । किंविशिष्टं सत् ? तीर्थगमsदुष्टचित्तपुरुषाश्रयं पवित्रदेशाश्रयमिव घनाम्बु । वाक्यस्य यत्र येन प्रामाण्यं तत्र तेन तत्कथयति
दृष्ट£ध्यक्षतो वाक्यमनुमेयेनुमानतः ।
पूर्वापराविरोधेन परोक्षे च प्रमाण्यताम् ॥ १८ ॥ प्रमाण्यतां प्रमाणं क्रियतां शिष्टैः । किं तत् ? वाक्यं परस्परसापेक्षाणां पदानामेकपराणां निरपेक्षः समुदायः । क ? अर्थे वस्तुनि । किंविशिष्टे ? दृष्टे प्रत्यक्षप्रमाणग्रहणयोग्ये। केन ? अध्यक्षतः प्रत्यक्षेण । तथाऽनुमेयेs. नुमानग्रहणयोग्येर्थे वाक्यमनुमानतः साधनात् साध्यविज्ञानेन प्रमाण्यताम् । च तथा परोक्षेऽस्मदादिप्रत्यक्षलैङ्गिकग्रहणायोग्येर्थे अतींद्रियविषये वाक्यं पूर्वापराविरोधेन प्रमाण्यताम् । आप्तानातोक्तवाक्ययोर्लक्षणमाह
यैकवाक्यतया विष्वग्वर्तते साहती श्रुतिः । कचिद्धि केनचिद्भूर्ता वर्तन्ते वाक्रियादिना ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org