SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । ९७ स्यात् । कासौ ? सा श्रुतिः प्रवचनम् । किंविशिष्टा ? आर्हती जैनी । या किम् ? या वर्तते व्याप्रियते । कया ? एकवाक्यतया एकादशार्थप्रतिपादकत्वेन । क्व ? विश्वक् सर्वत्र सिद्धान्ते तर्फे काव्यादौ च । हि यस्माद्वर्तन्ते जीवन्ति । के ? धूर्ताः परप्रतारणपराः । केन ? वाक्क्रियादिना वचन - चेष्टावेषादिना । केन ? केनचिन्नियतेन । क्छ ? क्वचिन्नियतविषये जिनवाक्ये । हेतुप्रतिघातशङ्कां प्रत्याचष्टे -- जिनोक्ते वा कुतो हेतुबाधगन्धोपि शक्यते । रागादिना विना को हि करोति वितथं वचः ॥ २० ॥ वा अथवा कुतः शङ्क्यते न कुतश्चिद्युक्तिज्ञैर्विकल्प्यते इत्यर्थः । कोसौ ? हेतुबाधगन्धोपि । हेतुभिर्युक्तिभिर्बाधो विपरीतार्थोपस्थापनम् । तस्य गन्धो लेशः । किं पुनः साकल्य मित्यपिशब्दार्थः । क्व ? जिनोक्ते । जिनस्य रागादीनां जेतुरुक्तं वचनं, तस्मिन् । यत्र तु रागादयः स्युस्तत्र वचसो वैतथ्यं संभवत्येव । अत्र व्यतिरेकेण समर्थनमाह, — हि यस्मात् को न कश्चित्करोति । किं तत् ? वचः । किंविशिष्टम् ? वितथं मिथ्या । कथम् ? चिना । केन ? रागादिना रागद्वेषमोहानामन्यतमेन । रागाद्युपहतानामाप्ततां प्रतिक्षिपति ये रागादिजिताः किंचिज्जानन्ति जनयन्त्यपि । संसारवासनान्तेपि यद्याप्ताः किं ठकैः कृतम् ॥ २१ ॥ ये रागादिजिताः रागद्वेषमो हैरभिभूताः सन्तः किंचिदल्पं जानन्ति तथा जनयन्ति । काम् ? संसारवासनां गृहगृहिण्याद्यभिलाषसंस्कारम् । तेपि याता यथार्थवादिनः कल्प्यन्ते लोकैस्तदा किं ठकैः कृतं खारपटैः कोपराधः कृतो, येन तेप्याप्तत्वेन न प्रतिपद्यन्ते इति सामर्थ्याद् गम्यते । आप्ताभासानामुपेक्षणीयतोपायमुपदिशति योsर्धा शूलपाणिः कलयति दयितां मातृहा योत्ति मांस, पुंस्ख्यातीक्षाबलाद्यो भजति भवरसं ब्रह्मवित्तत्परो यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy