________________
९८
अनगारधर्मामृते
यश्च स्वर्गादिकामः स्थति पशुमकृपो भ्रातृजायादिभाजः, कानीनाद्याश्च सिद्धा य इह तदवधिप्रेक्षया ते ह्युपेक्ष्याः॥२२॥
उपेक्ष्या रागद्वेषाविषयीकर्तव्याः । तेषु रागो द्वेषश्च स्वहितकामैन कर्तव्य इत्यर्थः । के ते ? शम्भुसुगतसांख्यवेदान्तियाज्ञिकव्यासवशिष्ठादयः। कया तदवधिप्रेक्षया । तेषां शम्भुप्रभृतीनामवधयः शास्त्राणि तदवधयः । तेषां प्रेक्षा विमर्शस्तया । कथम् ? हि नियमेन । उपेक्ष्या एवेत्यर्थः । यः किम् ? यः शम्भुः कलयति धारयति । काम् ? दयितां पार्वतीम् । क? अर्धाङ्गे शरीरार्धे । किंविशिष्टः सन् ? शूलपाणिः शूलं शस्त्रविशेषः पाणौ हस्ते यस्य स एवंम् । तथा यः सुगतोत्ति खादति । किं तत् ? मांसम् । कथंभूतो भूत्वा ? मातृहा जन्मकाले जननी हत्वेत्यर्थः । तथा यः सांख्यो भजति सेवते । कम् ? भवरसं विषयसुखम् । कस्मात् ? पुंस्ख्यातीक्षाबलात्। पुमान् पुरुषः ख्यातिः प्रकृतिः। पुमांश्च ख्यातिश्च पुंस्ख्याती। तयोरीक्षा ज्ञानं, तस्या बलमवष्टम्भस्तस्मात् । तथा यो वेदान्ती भवति । किंविशिष्टः? तत्परः । तद्भवरसभजनं परं प्रधानं यस्य स एवम् । किंविशिष्टः सन् ? ब्रह्म वित् । ब्रह्म आनन्दैकरूपं तत्वं वेत्ति ब्रह्मज्ञ इत्यर्थः । तथा यो याज्ञिकः स्थति हिनस्ति । कम् ? पशुं छागादिकम् । किंविशिष्टः सन् ? स्वर्गादिकामः । स्वर्ग आदिर्येषां पुत्रधनादीनां ते स्वर्गादयोः । तान् कामयते । कथंभूतो भूत्वा ? अकृपो निर्दयः। तथा ये इह लोके कानीनाद्या भ्रातृजायादिभाजः । भ्रातुर्जायाश्चण्डालकन्यादिस्त्रियश्च सेवितवन्तः । सिद्धाः प्रसिद्धाः ख्यातिं गताः । कन्याया अपत्यं कानीनो व्यासः । स आद्यो येषां वशिष्ठादीनां त एवम् । प्रपञ्चश्वास्य ज्ञानदीपिकायां द्रष्टव्यः।
युक्त्यनुगृहीतपरमागमाधिगतार्थपदार्थव्यवहारपरस्य मिथ्यात्वविजयमा. विष्करोति
यो युक्त्यानुगृहीतयाप्तवचनज्ञप्त्यात्मनि स्फारिते,ध्वर्थेषु प्रतिपक्षलक्षितसदाद्यानन्त्यधर्मात्मसु ।
नीत्या क्षिप्तविपक्षया तदविनाभूतान्यधर्मोत्थया, - धर्म कस्यचिदर्पितं व्यवहरत्याहन्ति सोन्तस्तमः ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org