________________
द्वितीयोऽध्यायः।
९९
. युक्त्या-आप्तवचनं प्रमाणं दृष्टेष्टाविरुद्धत्वात् सर्वमनेकान्तात्मकं सत्त्वादित्यादिकया। अनुगृहीतया व्यवस्थितया आप्तवचनज्ञल्या।
"जीवो त्ति हवदि चेदा उवओगविसेसिदो पहू कत्ता।
भोत्ता य देहमेत्तो ण हु मुत्तो कम्मसंजुत्तो॥" इत्याद्यागमज्ञानेन । वचनमुपलक्षणम् । तेनाप्तहस्तसंज्ञादिजनितमपि ज्ञानमागम एव । तथा च सूत्रम्
“आप्तवचनादिनिबन्धनमर्थशानमागमः" इति । स्फारितेषु स्फुरद्रूपीकृतेषु अर्थेषु जीवपुद्गलधर्माधर्माकाशकालेषु षट्सु पदार्थेषु प्रतीत्यादि । सत् सत्ता भाव इत्यर्थः । भावप्रधानोयं निर्देशः । सत् आदिर्येषां नित्यभेदादीनां धर्माणां ते सदादयः प्रतिपक्षाविरुद्धधर्मा यथाक्रममसत्क्षणिकभेदादयः प्रतिपक्षैर्लक्षिता विशिष्टाः सदादयः प्रतिपक्षलक्षितसदादयः। ते च ते अनन्ता एवानन्त्या धर्मा विशेषाः प्रतिपक्षलक्षितसदाद्यानन्त्यधर्माः। त एवात्मा स्वरूपं येषां ते तथोक्ताः । नीत्या नीयते परिच्छिद्यते प्रमाणपरिगृहीतार्थैकदेशोऽनयेति नीतिनयः स्वार्थंकदेशे व्यवसायात्मको बोध इत्यर्थः । आक्षिप्तविपक्षया आक्षिप्तोऽपेक्षितोsक्षिप्तो वाऽनिराकृतो विपक्षः प्रत्यनीकनयो यया । द्रव्यार्थनयो हि पर्यायार्थनयं पर्यायार्थनयश्च द्रव्यार्थनयमपेक्षमाण एव सम्यग् भवति नान्यथा । एवं सदसदादिष्वपि चिन्त्यम् । तदित्यादि । तेन विवक्षितेन धर्मेणाविनाभूतः सहभावेन क्रमभावेन वा नियतोऽन्यधर्मो हेतुः, साध्याविनाभानित्वेन निश्वितो हेतुरिति वचनात् । तत्र तस्माद्वा उत्था उत्थानं यस्याः सा तया । तद्यथा, पर्वते धर्मिणि सिसाधयिषितो धर्मों वह्निः । तदविनाभावित्वेन निश्चितो धर्मो धूमः। तजनिता प्रतिपत्तिीतिर्व्यवहर्तृणामप्रतिपनं वहिं पर्वतस्थं प्रवृत्तिविषयं निवृत्तिविषयं वा कुर्यात् धर्म सदसदादीनामन्यतमं कस्यचिजीवादिपदार्थेषु षट्सु मध्ये विवक्षितस्यैकस्य अर्पितं विवक्षित व्यवहरति प्रवृत्तिनिवृत्तिविषयं करोति । अन्तस्तमो मिथ्यात्वमज्ञानं वा । आहन्ति समन्ततो नाशयति स्वस्य परस्य च निराकरोतीत्यर्थः । कोसौ ? सः। किं तत् ? अन्तस्तमः । यः किम् ? यो व्यवहरति । कम् ? धर्मम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org