________________
१००
अनगारधर्मामृते
किंविशिष्टम् ? अर्पितम् । कया? नीत्या। किंविशिष्टया ? आक्षिप्तविपक्षया । पुनः किंविशिष्टया ? तदविनाभूतान्यधर्मोत्थया । कस्य संबन्धि. नम् ? कस्यचित् । केषु मध्ये। अर्थेषु । किंविशिष्टेषु ? प्रतिपक्षलक्षितस. दाद्यानन्त्यधर्मात्मसु । पुनः किं विशिष्टेषु ? स्फारितेषु । क? आत्मन्यन्त. स्तत्त्वे । कया? आप्तवचनज्ञस्या। किंविशिष्टया ? अनुगृहीतया। कया? युक्त्या । जीवादिपदार्थान् प्रत्येकं युक्त्या समर्थयतेसर्वेषां युगपद्गतिस्थितिपरीणामावगाहान्यथा,योगाद्धर्मतदन्यकालगगनान्यात्मा त्वहंप्रत्ययात् । सिध्येत् स्वस्य परस्य वाक्प्रमुखतो मूर्तत्वतः पुद्गलस्ते द्रव्याणि षडेव पर्ययगुणात्मानः कथंचिद् ध्रुवाः ॥२४ सिध्येदिति मध्यदीपकत्वात्प्रतिवाक्यं योज्यम् । तत्र वचनपरिणामेन सिध्येयुः परीक्षकचेतसि प्रतीतिमागच्छेयुः । कानि ? धर्मतदन्यकालगगनानि । धर्मश्च तदन्यश्चाधर्मः कालश्च गगनं चाकाशं, तानि चत्वारि । कस्मात् ? युगपद् गतिस्थितिपरीणामावगाहान्यथायोगात् । केषाम् ? सर्वेषां यथास्वं जीवादिपदार्थानाम् । अन्यथा धर्मादीनन्तरेणायोगोऽनुपपत्तिरन्यथायोगः । गतिश्च स्थितिश्च परीणामश्चावगाहश्च गतिस्थितिपरीणामावगाहाः। युगपद्भाविनो गतिस्थितिपरीणामावगाहा युगपद्दतिस्थितिपरीणामावगाहाः । तेषामन्यथायोगस्तदन्यथानुपपत्तिस्तस्मात् । आत्मा जीवस्तु पुनः स्वस्य स्वदेहस्थः सिध्येत् प्रतीतिमागच्छेत् । कस्मात् ? अहंप्रत्ययात् अहमित्यन्तर्मुखाकारतया प्रतीतेः । तथा परस्यात्मा परशरीरस्थो जीवः सिध्येत् । कस्मात् ? वाक्प्रमुखतः । वाक् वचनं प्रमुख आदिर्यस्य चेष्टादिविशिष्टकार्यस्य तद्वाक्प्रमुखं, तस्मात् । तथा सिध्येत्पुद्गलः । कस्मात् ? मूर्तत्वतो रूपादिमत्वात् । ते च धर्माधर्मकालाकाशजीवपुद्गला गुणपर्ययवत्वात् द्रव्याणि भवन्ति । कति ? षडेव । नो न्यूनानि नाधिकानि । किंविशिष्टास्ते ? पर्ययगुणात्मानः । क्रमभुवः पर्ययाः सहभुवो गुणाः । पर्ययाश्च गुणाश्च पर्ययगुणाः । ते आत्मानः स्वभावा येषां ते तथोक्ताः । पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org