________________
द्वितीयोऽध्यायः।
१०१
किंविशिष्टाः ? कथंचिद् ध्रुवाः । सर्वेषां मध्ये गतिस्थितिपक्षे जीवपुद्गलानां तेषामेव सक्रियत्वात् गतिमतामेव च स्थितिसंभवात् , परिणामावगाहपक्ष पुनः षण्णामपि, अपरिणामिनः पदार्थस्य खपुष्पकल्पत्वात् आधारमन्तरेणा. धेयस्थित्ययोगात् । न परः कालः, परेषामिव स्वस्यापि परिणामस्य कारणं प्रदीप इव प्रकाशस्य । आकाशं च परेषामिव स्वस्याप्यवकाशहेतुः, आकाशं च स्वप्रतिष्ठमित्यभिधानात् । अहंप्रत्ययात् अहं सुखी अहं दुःखी. त्यादिज्ञानात् प्रतिप्राणि स्वयं संवेधमानात् । मूर्तवतो रूपादिमत्वात् । यस्य हि रूपरसगन्धस्पर्शाः सत्तयाऽभिव्यक्त्या वा प्रतीयन्ते स सर्वोपि पुद्गलः । तेन पृथिव्यतेजोवायूनां पर्यायभेदेनान्योन्यं भेदो रूपाधात्मकपुद्गलद्रव्यात्मकतया वाभेदः । षडेव, पृथिव्यप्तेजोवायूनां पुद्गलपरिणामविशेषत्वेन द्रव्यान्तरत्वायोगात् दिश आकाशप्रदेशपङ्गिरूपतया ततोनान्तरत्वात् । द्रव्यमनसः पुद्गले भावमनसश्चात्मनि पर्यायतयान्तर्भावात् परपरिकल्पितस्य च मनोगव्यस्यासिद्धेः । पर्याया अर्थपर्याया व्यअनपर्यायाश्चेति द्वेधा । तत्राचा धर्मादिषु । ते परे च जीवपुद्गलयोः । उक्तं च
धर्माधर्मनभाकाला अर्थपर्यायगोचराः। व्यञ्जनार्थेन संबद्धौ द्वावन्यौ जीवपुद्गलौ ॥१॥ स्थूलो व्यञ्जनपर्यायो वाग्गम्यो नश्वरः स्थिरः।
सूक्ष्मः प्रतिक्षणध्वंसी पर्यायश्चार्थसंशकः ॥२॥ इति । गुणा मूर्तद्रव्यस्था मूर्ता अमूर्त्तद्रव्यस्थाश्चामूर्ता कथंचिदू ध्रुवा द्रव्यरूपतया नित्याः पर्यायरूपतया चानित्या इति कथंचिच्छब्दाल्भ्यते। तथाहि । जीवादि वस्तु नित्यं तदेवेदमिति प्रतीतेः । यद्धि बालाघवस्थायां प्रतिपनं देवदत्तादिवस्तु तधुवाद्यवस्थायां तदेवेदमिति निरारेकं प्रत्यभिज्ञानतो व्यवहरन्ति सर्वेपि । तथा तदनित्यं बालाद्यवस्थातो युवाधवस्थान्येति निर्बाधतया प्रतीतेः। एवं धर्मादिवदास्त्रवाद्यपि समधिगम्य श्रद्दध्यादित्यनुशास्तिधर्मादीनधिगम्य सच्छुतनयन्यासानुयोगैः सुधीः, श्रद्दध्यादविदाज्ञयैव सुतरां जीवांस्तु सिद्धेतरान् । १ व्यञ्जनेन तु संबद्धौ इति पाठ आलापपद्धत्यादौ दृश्यते। .
-
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
ww