________________
अनगारधर्मामृते
स्थान्मन्दात्मरुचेः शिवाप्तिभवहान्यों हपार्थः श्रमो । मन्येताप्तगिरास्रवाद्यपि तथैवाराधयिष्यन् दृशम् ॥ २५ ॥ श्रद्दध्यादभिनिविशेत । कोसौ ? सुधी/धनः । कान् ? धर्मादीन् । किं कृत्त्वा ? अधिगम्य ज्ञात्वा । कैः ? सच्छुतनयन्यासानुयोगैः । श्रुतनयौ प्रागुक्तलक्षणौ । न्यासो नामादि निक्षेपः। अनुयोगो निर्देशादिः सदादिश्च श्रुतं च नयश्च न्यासश्चानुयोगश्च श्रुतनयन्यासानुयोगाः । सन्तः समीचीनाः श्रुतनयन्यासानुयोगाः सच्छ्रुतादयस्तैः । तथा श्रद्दध्यात् । कोसौ ? अवित् । ईषद्वेत्तीत्यविन्मन्दमतिः । कान् ? धर्मादीन् । किं कृत्वा ? अधिगम्य । कया ? आज्ञयैव, 'नान्यथावादिनो जिना' इत्येवं मनसि समाधाय । तथा श्रद्दध्यात् सुधीरविच्च । कान् ? जीवान् । किंविशिष्टान् ? सिद्धेतरान् मुक्तान् संसारिणश्च । कथम् ? सुतरां धर्माद्यजीवेभ्योतिशयेन । किं कृत्वा ? सच्छुतादिभिराज्ञया चाधिगम्य । तुर्विशेषे । अत्र समर्थनमाह-हि यस्मात् स्यात् । कोसौ ? श्रमस्तपश्चरणाद्यभ्यासः । किंविशिष्टः ? अपार्थः शिवाप्तिभवहान्योरप्रसाधकः । कस्य ? मन्दात्मरुचेः । मन्दा अनुद्रिक्ता आत्मनश्वेतनस्य रुचिः श्रद्धा यस्य स एवम् । किंविशिष्टोसौ? शिवाप्तिभवहान्यर्थः। शिवाप्तिर्मुक्तिप्राप्तिर्भवहानिः संसारनिरासः। शिवाप्तिश्च भवहानिश्च शिवातिभवहानी अर्थों प्रयोजने यस्य स एवम् । न केवलं तांस्तथा श्रद्दध्यात्, मन्येतापि प्रतिपद्येत च सुधीरविच्च । किं तत् ? आस्रवादि आस्रवबन्धपुण्यपापसंवरनिर्जरामोक्षलक्षणं तत्त्वम् । कया ? आप्तगिरा गुरुवाचा । कथम् ? तथैव । सुधीः सच्छुतादिभिरविचाज्ञयैवेत्यर्थः । किं करिष्यन् ? आराधयिष्यन् उद्योतनादिभिर्भक्तुमिच्छन् । काम् ? दृशं सम्यक्त्वम् । एतदन्तदीपकत्वात्पूर्वत्रापि योज्यम् । जीवपदार्थ विशेषेणाधिगमयतिजीवे नित्यर्थसिद्धिः क्षणिक इव भवेन्न क्रमादक्रमाद्वा, नामूर्ते कर्मबन्धो गगनवदणुवद् व्यापकेऽध्यक्षबाधा । नैकस्मिन्बुद्भवादिप्रतिनियमगतिः क्ष्मादिकार्येन चिच्वं, यत्तनित्येतरादिप्रचुरगुणमयः स प्रमेयः प्रमाभिः ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org