________________
द्वितीयोऽध्यायः ।
९३
अथवा मोह इत्यनेन मिथ्यात्वसम्यद्मिथ्यात्वसम्यक्त्वाख्यास्त्रयो दर्शनमोहभेदा अनन्तानुबन्धिक्रोधमानमायालो भाख्याश्चत्वारश्चारित्रमोहभेदा गृह्यन्ते सप्तानामपि सम्यक्त्वघातकत्वेन पुरुषसंतापकत्वादिति सप्तार्चि:शब्दः स्मरयति ।
मिथ्यात्वसम्यक्त्वयोः सुखप्रतीत्यर्थं लक्षणमुपसंगृह्णाति
ग्रासाद्यादीनवे देवे वस्त्रादिग्रन्थिले गुरौ । धर्मे हिंसामये तद्धीर्मिथ्यात्वमितरेतरत् ॥ १२ ॥
भवति । किं तत् ? मिथ्यात्वम् । किम् ? तद्धीर्देवगुरुधर्मबुद्धिः । क ? देवे । किंविशिष्टे ? ग्रासाद्यादीनवे - ग्रासादिभिः कवलाहारस्त्रीशस्त्राक्षसूत्रधारणादिभिः कार्यैरनुमीयमाना आदीनवाः क्षुद्रागद्वेषमोहादयो दोषा यस्य स तस्मिन् । तथा गुरौ । किंविशिष्टे ? वस्त्रादिग्रन्थिले वस्त्रदण्डादिग्रन्थग्राहिणि । वस्त्रादिग्रन्थिक इति वा पाठः । तत्र वस्त्रादिग्रन्थोस्यास्तीति "ठेनावतः " इति मत्वर्थीयंष्टः प्रत्ययः । उक्तं च
सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥
तथा धर्मे किंविशिष्टे ? हिंसामये प्राणव्यपरोपणरूपे ।
तथा भवति । किं तत् ? इतरत् सम्यक्त्वम् । किम् ? तद्धोः । किंविविष्टा ? इतरा निर्दोषे देवे निर्मन्थे गुरौ अहिंसालक्षणे च धर्मे देवगुरुधर्मबुद्धिरित्यर्थः ।
सम्यक्त्व सामग्रीमाशंसति
तद् द्रव्यमव्यथमुदेतु शुभैः स देशः संतन्यतां प्रतपतु प्रततं स कालः ।
भावः स नन्दतु सदा यदनुग्रहेण प्रस्रौति तच्चरुचिमाप्तगवी नरस्य ।। १३ ॥
उदेतु स्वकार्यांयोद्भूयात् । किं तत् ? तद् द्रव्यं जिनदेहतत्प्रतिमादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org