SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते वाशब्दः पक्षान्तर सूचने भवति । किंतन्मिथ्यात्वं तत्त्वारुच्यादिभेदात् त्रिविधम् । तत्र तत्वारुचिर्वस्तुयाथात्म्ये नैसर्गिकमश्रद्धानम् । तथा चोक्तम् ९२ " एकेन्द्रियादिजीवानां घोराज्ञानविवर्तिनाम् । तीव्रसंतमसाकारं मिथ्यात्वमगृहीतकम्” इति ॥ अतत्त्वाभिनिवेशो गृहीतमिथ्यात्वं परोपदेशाज्जातं त्रिषष्ट्यधिकत्रिशतभेदम् । तथा चोक्तम् "भेदाः क्रियाऽक्रियावादिविनयाज्ञानवादिनाम् । गृहीतासत्यदृष्टीनां त्रिषष्टित्रिशतप्रमाः ॥” इति । एतत्प्रपञ्च ज्ञानदीपिकायां द्रष्टव्यः । तत्त्वसंशयो जिनोक्तं तत्त्वं सत्यं नवेति संकल्पः । न चास्ति । किम् ? अश्रेयः पापमकल्याणं वा किंचित् । किंविशिष्टम् ? तादृशं येन केनापि मिथ्यात्वेन तुल्यम् । क ? क्वचिद् देशे । जातु कदाचिदपि । मिथ्यात्वव्यवच्छेदपरं प्रशंसति यो मोहसप्तार्चिषि दीप्यमाने चेक्लिश्यमानं पुरुषं झषं वा । उद्धृत्य निर्वापयतीद्धविद्यापीयूषसेकैः स कृती कृतार्थः ॥ ११ ॥ सकृती विद्वान्, कृतार्थः पूर्णमनोरथः स्यात् । यः किम् ? यो निर्वापयति विध्यापयति । कम् ? पुरुषं जीवम् । कमिव ? झषं वा मत्स्यमिव । कैः ? इद्धविद्यापीयूषसेकैः दीप्तप्रमाणनयाद्यधिगमसुधासेचनैः । किं कृत्वा ? उद्धृत्य मिथ्यात्वाग्नेः पृथक्कृत्य । किं कुर्वाणम् ? चेक्लिश्यमानं भृशं पुन: पुनर्वा उपतप्यमानम् । क्व ? मोहसप्तार्चिषि मिथ्यात्वानौ । किं कुर्वाणे ? दीप्यमाने ज्वलति । सप्तार्चिरित्युपमानपदं मिथ्यात्वस्य सप्तापि भेदाः कैश्चिदिष्यन्त इति सूचयति । तथा च पठन्ति - "ऐकान्तिकं सांशयिकं च मूढं स्वाभाविकं वैनयिकं तथैव । व्युग्राहिकं तद्विपरीतसंज्ञं मिथ्यात्व भेदानवबोध सप्त ॥” Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy