________________
द्वितीयोऽध्यायः।
संशयमिथ्यादृष्टेः कलिकाले साहायकमाविष्करोतिअन्तस्खलच्छल्यमिव प्रविष्टं रूपं स्वमेव स्ववधाय येषाम् । तेषां हि भाग्यैः कलिरेष नूनं तपत्यलं लोकविवेकमश्नन् ॥८॥
नूनं निश्चितमहमेवं मन्ये-तपति निरङ्कुशं विजृभते । कोसौ ? एष प्रतीयमानः कलिर्दुःषमकालः । किं कुर्वन् ? अनन् भक्षयन् संहरन् । कम् ? लोकविवेकं व्यवहर्तृजनानां युक्तायुक्तविचारम् । कथम् ? अलं पर्याप्तम् । कैः ? भाग्यैः पुण्यैः । केषाम् ? तेषां हि तेषामेव सितपटानाम् । येषां किं ? येषां भवति । किं तत् ? स्वमेव रूपं । किं केवली कवलाहारी उतस्विदन्यथेत्यादि दोलायितप्रतीतिलक्षणमात्मस्वरूपम् । कस्मै ? स्ववधाय आत्मनो विपरीताभिनिवेशलक्षणपरिणमनेनोपघातार्थम् । किमिव ? शल्यमिव काण्डादि यथा। किंविशिष्टम् ? प्रविष्टम् । क ? अन्तः शरीरमध्ये । किं कुर्वत् ? स्खलत् प्रचलत् । कलिरित्यनेन कलिकाले श्वेतपटमतमुदभूदिति ज्ञापयति ।
अज्ञानमिथ्यादृशां दुर्ललितान्यनुशोचतियुक्तावनाश्वस्य निरस्य चाप्तं भूतार्थमज्ञानतमोनिमग्नाः। जनानुपायैरतिसंदधानाः पुष्णन्ति ही स्वव्यसनानि धृर्ताः ९
पुष्णन्ति संतर्पयन्ति । के ? ते धूर्ताः । कानि स्वव्यसनानि आत्मनोभिमतदुराचारान् । कथम् ? ही कष्टम् । किं कुर्वते ? अतिसंदधाना वञ्चयमानाः। कान् ? जनान् लोकान् । कैः ? उपायैः तदभिप्रायानुप्रवेशोपक्रमैः । किंविशिष्टाः सन्तः ? अज्ञानतमोनिमग्नाः अबोधान्धकारबुडिताः । किं कृत्वा ? अनाश्वस्य विश्वासमकृरवा । कस्याम् ? युक्तो सर्वज्ञोस्ति सुनिश्चितासंभवद्वाधकप्रमाणत्वात्सुखादिवदित्यादिप्रमाणव्यवस्थायाम् । तथा निरस्य युक्तयाभासबलेन निराकृत्य । कम् ? आसं सर्वज्ञम् । किंविशिष्टम् ? भूतार्थ परमार्थसन्तम् ।
प्रकारान्तरेण मिथ्यात्वभेदान् कथयन् सर्वत्र सर्वदा तस्थापकारकत्वं कथयति
तत्वारुचिरतत्त्वाभिनिवेशस्तत्त्वसंशयः। मिथ्यात्वं वा कचित्किचिन्नाश्रेयो जातु तादृशम्॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org