________________
अनगारधर्मामृते
अभिगच्छति सेवते । काम् ? सर्वथैकान्तसंवित्परयुवतिम् । सर्वथैकान्तानां केवलनित्यक्षणिकभावाभावभेदाभेदवादानां संवित्प्रतिज्ञा ज्ञानं वा सर्वथैकान्तसंवित् । सा परयुवतिः परस्त्री च मोहादिहेतुत्वात् । कीदृशोपि ? अनेकान्तात्मसंवित्प्रियोपि अनेकान्तात्मनो बहिरन्तर्वस्तुनः संवित् प्रिया वल्लभा यस्य स एव न परो मिथ्यादृष्टिरित्यपिशब्दार्थः ।
विनयमिथ्यात्वं निन्दति-
शिवपूजादिमात्रेण मुक्तिमभ्युपगच्छताम् । निःशङ्कं भूतघातोयं नियोगः कोपि दुर्विधेः ॥ ६॥
भवति । कोसौ ? अयं निःशङ्कं निरारेकं क्रियमाणो भूतघातः प्राणिवधः । किं भवति ? नियोगो व्यापारः । कस्य ? दुर्विधेः दुर्दैवस्य । किंविशिष्टः ? कोप्यलौकिकः । अथवा दुर्विधेर्दुरागमप्रयोगस्य नियोगो नियमेन प्रेरणमिति व्याख्येयम् । केषाम् ? विनयवादिनाम् । किं कुर्वताम् ? अभ्युपगच्छतामङ्गीकुर्वताम् । काम् ? मुक्ति मोक्षम्। केन शिवपूजादिमात्रेण । शिवपूजा स्वयमाहृतबिल्वपत्रादियजन मुदकप्रदानप्रदक्षिणी करणात्मबिडम्बनादिका । सा आदिर्थस्य गुरुपूजादेः सोयं शिवपूजादिर्विनयः । तन्मात्रेण क्रियान्तरनिरपेक्षेण ।
विपर्यास मिथ्यात्वपरिहारे प्रेरयति -
येन प्रमाणतः क्षिप्तां श्रद्दधानाः श्रुतिं रसात् । चरन्ति श्रेयसे हिंसां स हिंस्यो मोहराक्षसः ॥ ७ ॥
हिंस्यो वध्यः स्वहितकामैः । कोसौ ? सः मोहराक्षसः । मोहो विपरीतमिथ्यात्वनिमित्तं कर्म, मोहो राक्षसो निशाचर इवापकारभूयस्त्वात् । येन किम् ? येन हेतुना चरन्त्यनुतिष्ठन्ति मीमांसकाः । काम् ? हिंसां पशु
धादिकम् । कस्मै ? श्रेयसे स्वर्गादिसाधनपुण्यार्थम् । कस्मात् ? रसात् हर्षीत् । किं कुर्वाणाः ? श्रद्दधाना रोचमानाः । काम् ? श्रुतिं वेदम् | किंविशिष्टाम् ? क्षिप्तां बौद्धादिभिस्तिरस्कृताम् । केन ? प्रमाणतः अनाप्तप्रणीतत्वात् पशुवधप्रधानत्वादित्यादियुक्ति बलेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org