________________
द्वितीयोऽध्यायः।
उदयेन । येन किम् ? येन विपरीताभिनिवेशेनाविष्टो जीवो न रोचते न श्रखत्ते । कम् ? धर्म वस्तुयाथात्म्यम् । कमिव केनेत्याह-यथा न रोचते । कोसौ ? पित्तज्वरेणाविष्टो नरः । कम् ? स्वादुं मधुररसम् । मिथ्यात्वस्य विकल्पांस्तत्प्रणेतृमुखेन लक्षयति
बौद्धशैवद्विजश्वेतपटमस्करिपूर्वकाः ।
एकान्तविनयभ्रान्तिसंशयाज्ञानदुर्दृशः ॥४॥ भवन्ति । के ? बौद्धादयः । किंविशिष्टाः ? एकान्तादिदुदृशः । बौद्धश्च शैवश्व द्विजश्च श्वेतपटश्च मस्करी च बौद्धशैवद्विजश्वेतपटमस्करिणः । ते पञ्च पूर्वे आदयो येषां यौगादीनां ते तत्पूर्वकाः। एकान्तः सर्वथा क्षणिकादिः । भ्रान्तिर्विपर्ययः । एकांतश्च विनयश्च भ्रान्तिश्च संशयश्चाज्ञानं च तानि । तैर्दुर्दशो मिथ्यादृष्टयः । मस्करीति मस्कारिपूरणनामा पार्श्वनाथतीर्थोत्पन्न ऋषिः। स सद्योजातकेवलज्ञानाद्वीरजिनाद् ध्वनिमिच्छंस्तत्राजातध्वनौ मय्येकादशाङ्गधारिण्यपि नास्य ध्वनिनिर्गमोऽभूत् स्वशिष्ये तु गौतमे सोभूदिति मत्सराद्विकल्प्य नायं सर्वज्ञ इति ततोपसृत्य अज्ञानान्मोक्ष इति मतं प्रकाशितवान् । एकान्तमिथ्यात्वस्य दोषमाख्याति
अभिसरति यतोगी सर्वथैकान्तसंवित्,परयुवतिमनेकान्तात्मसंवित्प्रियोपि । मुहुरुपहितनानाबन्धदुःखानुबन्धं,
तमनुषजति विद्वान् को नु मिथ्यात्वशत्रुम् ॥५॥ नु अहो को विद्वाननुषजति । कम् ? तं मिथ्यात्वशत्रुम् । न कश्चिप्रेक्षापूर्वकारी तमनुबन्धातीत्यर्थः । कीदृशम् ? मुहुरित्यादि, नानाबन्धाः प्रकृतिस्थित्यादिकर्मबन्धप्रकाराः रजु निगडादिबन्धनानि च तद्वशाद् दुःखखानुबन्धोऽविच्छेदः मुहुर्वारंवारमुपहितः संयोजितो नानाबन्धदुःखानुबन्धो येन सः । यतः किम् ? येन हेतुना अङ्गी प्राणी अभिसरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org