________________
अनगारधर्मामृते
मृग्यते अपेक्ष्यते । किं तत् ? वृत्तं चारित्रम् । किंविशिष्टम् ? सुहृन्मित्रम् । केन ? स्वमहसा स्वस्थात्मनः स्वमात्मीयं महस्स्वमहस्तेन । कस्य ? कस्यचि. त् । किं कुर्वत् ? उच्छ्रयत् । कस्यै ? सिधै । किंविशिष्टेन ? अविद्याच्छिदा। कथंभूतेन भूत्वा ? उद्गतेन उद्यतेन । कथं ? पुनः । कस्मात् ? तद्पक्षेपात् । किं कृत्त्वा? मीलित्वा । कथम् ? पुनः। कस्मात् ? तबलात् । किं कृत्वा ? च्युस्वा अपेत्य । कस्मात् ? अन्धतमसात् । किंविशिष्टात् ? आसंसारविसारिणः संसारमभिव्याप्य स्वकार्ये विपरीताभिनिवेशे प्रवर्तनशीलात् । पुनः किं विशिष्टात् ? मिथ्याभिमानान्वयात् । अन्वीयत इत्यन्वयः । मिथ्याभिमानेनान्वयोनुगम्यमानं मिथ्याभिमानान्वयः तस्मात् । कुतस्तथाविधात्ततः प्रच्युतमित्याह-कालबलात् । कथं ? च्युत्वा प्रच्युत्य निमीलितभवानन्त्यम् । मिथ्यात्वस्योपस्कारिका सामग्री प्रतिनिवर्तयितुं मुमुक्षून् व्यापारयति
दवयन्तु सदा सन्तस्तां द्रव्यादिचतुष्टयीम् ।
पुंसां दुर्गतिसर्गे या मोहारेः कुलदेवता ॥२॥ दवयन्तु दूरीकुर्वन्तु । के ? सन्तो मुमुक्षवः । काम् ? तां द्रव्यादिचतुष्टयीम् । कथम् ? सदा । तत्र द्रव्यं परसमयप्रतिमादिः । क्षेत्रं तदायतनतीर्थादिः। कालः संक्रान्तिग्रहणादिः। भावः शङ्कादिः। या किम् ? या भवति । किंविशिष्टा ? कुलदेवता गोत्रदेवी। कस्य ? मोहारेः मिथ्यात्वशत्रोः । क कर्तव्ये ? दुर्गतिसर्गे दुर्गतेर्मिथ्याज्ञानस्य नरकादिगतेर्वा सर्गे निर्माणे । केषाम् ? पुंसां जीवानाम् यथा प्रतिपक्षजनानां दुर्गतौ दारिये कर्तव्ये जिगीषोः कुलदेवता जागर्ति तथा मोहस्य प्राणिनां दुर्गतौ कर्तव्यायां यथोक्तद्रव्यादिचतुष्टयीति भावः । मिथ्यात्वस्य कारणं लक्षणं चोपलक्षयति
मिथ्यात्वकर्मपाकेन जीवो मिथ्यात्वमृच्छति ।
स्वादु पित्तज्वरेणेव येन धर्म न रोचते ॥३॥ - ऋच्छति गच्छति । कोसौ ? जीवः । किं तत् ? मिथ्यात्वं विपरीताभि. 'निवेशम् । केन ? मिथ्यात्वकर्मपाकेन मद्यसदृशस्य दर्शनमोहकर्मण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org