________________
अथ द्वितीयोऽध्यायः ॥२॥
इह हि "उद्योतोद्यवनिर्वाह सिद्धिनिस्तरणैर्भजन् ।
भव्यो मुक्तिपथं भाक्तं साधयत्येव वास्तवम्" ॥ इति पूर्वमुक्तम् । तत्रादौ सम्यक्त्वाराधनाप्रक्रमे मुमुक्षूणां स्वसामग्रीतः समुद्भूतमपि सम्यग्दर्शनमासन्नभव्यस्य सिद्धिसंपादनार्थमारोहप्रकर्ष चारत्रमपेक्षते इत्याह
आसंसारविसारिणोऽन्धतमसान्मिथ्याभिमानान्वयाक्युक्त्वा कालबलानिमीलितभवानन्त्यं पुनस्तद्धलात् । मीलित्वा पुनरुद्गतेन तदपक्षेपाद विद्याच्छिदा, सिद्ध्यै कस्यचिदुच्छ्रयत् स्वमहसा वृत्तं सुहृन्मृग्यते ॥१॥
अन्धतमसाद् द्रव्यमिथ्यात्वात् पक्षे दुर्नयविलसितात् , मिथ्याभिमानान्वयाद् विपरीताभिनिवेशलक्षणभावमिथ्यात्वेन पक्षे दुरभिनिवेशावष्टम्भरूपयुक्तिप्रणीताहङ्कारेण चानुगम्यमानात् , कालबलात् उपलक्षणात् काला. दिलब्ध्यवष्टम्भात् पक्षे कार्यसिद्ध्यनुकूलसमयसामर्थ्यात् । निमीलितभवान्यं तिरस्कृतानन्तसंसारं यथा भवति । तद्वलादनाद्यनुबद्ध मिथ्यात्वसाम
र्थ्यात् । मीलित्वा तिरोभूय । भव्यः खल्वनादिमिथ्यादृष्टिः कालादिलब्ध्यान्तर्मुहर्तमौपशमिकसम्यक्त्वमनुगम्य पुनस्ततः प्रच्युत्य नियमेन मिथ्यात्वमाविशति । तदुक्तम्
"निशीथं वासरस्येव निर्मलस्य मलीमसम् । पश्चादायाति मिथ्यात्वं सम्यक्त्वस्यास्य निश्चितम्"॥इति । तदपक्षेपात् तथाविधान्धतमसप्रध्वंसात् । अविद्याच्छिदा अविद्या कुमतिकुश्रुतविभङ्गस्वभावं मोहसंशय विपर्ययरूपं वा अज्ञानत्रयं छिनत्ति सम्यङ्मत्यादिरूपता प्रापयतीत्यविद्याच्छित् , तेन । सियै स्वात्मोपलब्धये आत्मोत्कर्षपरापकर्षसाधनार्थं च । कस्यचिदासन्नभव्यस्य विजिगीषोश्च । उच्छ्रयत् उद्यत् । स्वमहसा सम्यग्दर्शनलक्षणेन प्रतापरूपेण च निजतेजसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org