SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते _ भवति । किं तत् ? चेतश्चित्तम् । किंविशिष्टम् ? स्थिरं निश्चलम् । कस्मात् ? इष्टानिष्टार्थमोहादिच्छेदात् । इष्टानिष्टयोरर्थयोः स्वरूपानवबोधो मोहः । इष्टे प्रीतिः रागोऽनिष्टे चाप्रीतिर्द्वषः । तेषां छेदान्निरासात् । तथा भवति । किं तत् ? ध्यानम् । कस्मात् ? ततः स्थिराञ्चेतसः । तथा भवति । किं तत् ? रत्नत्रयम् । कस्मात् ? तस्माद् ध्यानात् । तथा भवति । कोसौ ? मोक्षः। कस्मात् ? तस्मादत्तत्रयात् । तथा भवति । किं तत् ? सुखम् । कस्मात् ? ततो मोक्षात् । इति भद्रम् ॥ ग्रंथसंख्या ॥ १६०० ॥ यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्रागमक्षीरोदं शिवधीनिमथ्य जयतात्स श्रीमदाशाधरः। भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिम, टीकाशुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः॥ इत्याशाधरविरचितायां खोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुद चन्द्रिकासंज्ञायां धर्मस्वरूपनिरूपणः प्रथमोऽध्यायः ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy