________________
प्रथमोऽध्यायः।
तत् ? भवकक्ष संसारारण्यम् । कीदृशम् ? जाज्वलदुःखदावज्वलनम्। जाज्वलन्तो देदीप्यमाना दुःखदावज्वलना यत्र । कीदृशः सन् ? अशरणोऽत्राणः।
धर्माचार्यैर्युत्पादितमतिः सङ्गत्यागादिना स्वात्मानं तद्भवे भवान्तरेषु वा निःसंसारं करोतीत्याह
त्यत्वा सङ्गं सुधीः साम्यसमभ्यासवशाद्भवम् । समाधिं मरणे लब्ध्वा हन्त्यल्पयति वा भवम् ॥ ११२॥ हन्ति नाशयति । कोसौ ? सुधीः प्रमाणनयनिक्षेपानुयोगैयुत्पन्नप्रज्ञश्वरमदेहो भव्यः । कम् ? भवम् । स एवाचरमदेहोऽल्पयति हासयति संसारम् । किं कृत्वा ? लब्ध्वा प्राप्य । कम् ? समाधि रत्नत्रयैकाग्रताम् । क? मरणे प्राणत्यागसमये । कथम् ? ध्रुवमवश्यम् । कस्मात् ? साम्यसमभ्यासवशात् । सामायिकसन्ततभावनाबलात् । किं कृत्वा ? त्यक्त्वा । कम् ? सङ्गम् । अभेदसमाधिमहिमानमभिष्टौति
अयमात्मात्मनात्मानमात्मन्यात्मन आत्मने ।
समादधानो हि परां विशुद्धि प्रतिपद्यते ॥११३॥ हि यस्मात्प्रतिपद्यते प्राप्नोति । कोसौ ? अयं स्वसंवेदनसुव्यक्त आत्मा जीवः । काम् ? विशुद्धिम्। किंविशिष्टाम् ? परां घातिकर्मक्षयलक्षणां सकलकर्मक्षयलक्षणां वा। किं कुर्वाणः ? समादधानो ध्यायन् । कम् ? आत्मानं शुद्धचिदानन्दमयं स्वम् । केन ? आत्मना स्वसंवेदनरूपेण स्वेन । क ? आत्मनि निर्विकल्पे स्खे। कस्मात् ? आत्मनः करणान्तःकरणज्ञानात्मकात्स्वस्मात् । व्यावर्त्य । कसै ? आत्मने शुद्धचिदानन्दस्वरूपाय स्वसै। ध्यानस्य सामग्रीक्रमं साक्षादसाक्षाच फलं कथयतिइष्टानिष्टार्थमोहादिच्छेदाचेतः स्थिरं ततः। ध्यानं रत्नत्रयं तस्मात्तस्मान्मोक्षस्ततः सुखम् ॥ ११४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org