________________
अनगारधर्मामृते
4
अनिवृत्तावादिसमयादारभ्य संख्येयेषु भागेषु पुंवेदक्रोधसंज्वलनौ, मध्ये संख्येयेषु भागेषु मानमायासंज्वलनौ बध्येते, चरमसमये लोभसंज्वलनमास्त्रवते । अग्रे संब्रियते । पञ्चज्ञानावरणचतुर्दर्शनावरणयशस्कीयुच्चैर्गोअपञ्चान्तरायाणां मन्दकषायात्रवाणां सूक्ष्मो बन्धक, अवं संवरः । योगहेतुसद्वेद्यस्योपशान्तक्षीणकषायसयोगानां बन्धः, अयोगिनि संवरः।
अत्र च शुद्धनिश्चये शुद्धबुद्धैकस्वभावो निजात्मा ध्येयस्तिष्ठतीति शुद्धध्येयत्वाच्छुद्धावलम्बनत्वाच्छुद्धात्मस्वरूपसाधकत्वाच्च शुद्धोपयोगो घटते । स च भावसंवर इत्युच्यते । एष च संसारकारणभूतमिथ्यात्वरागाद्यशुद्धपर्यायवदशुद्धो न स्यादू, नापि फलभूतकेवलज्ञानलक्षणशुद्धपर्यायवच्छुद्धः स्यात्। किंतु ताभ्यामशुद्धशुद्धपर्यायाभ्यां विलक्षणं शुद्धात्मानुभूतिरूपनिश्चयरखत्रयात्मकं मोक्षकारणमेकदेशव्यक्तिरूपमेकदेशनिरावरणं च तृतीयमव. स्थान्तरं भण्यते।
नित्यात्यन्तनिर्मलस्वपरप्रकाशनसमर्थचिदानन्दात्मकपरमात्मभावनोद्भूतशुद्धस्वात्मानुभूतिरूपनिश्चयरत्नत्रयात्मकधर्मामृतसमुद्रमवगाहमानरुदीर्णरसलेशोपि तत्स्थस्योपासकवर्गस्यानुग्रहाय स्यादित्युपदिशति
कथमपि भवकक्षं जाज्वलदुःखदाव, ज्वलनमशरणो ना बम्भ्रमन् प्राप्य तीरम् । श्रितबहुविधसत्त्वं धर्मपीयूषसिन्धो,
रसलवमपि मजत्कीर्णमृनोति विन्दन् ॥ १११ ॥ ऋनोति ज्ञानसंयमादिना प्रह्लादबलौजोवीर्यादिना च वर्धते । कोसौ ? ना पुरुषः । किं कुर्वन् ? विन्दन् लभमानः। कम् ? रसलवमपि स्तोकमपि निर्यासम् । कीदृशम् ? मजकीर्ण मजद्भिधर्मपीयूषसिन्धौ स्नाद्भिर्घटमानयोगैर्मुमुक्षुभिर्धन्यतमलोकैश्च कीर्ण उद्गीण । किं कृत्वा ? प्राप्य । किं तत् ? तीरम् । तत्प्रत्यासत्तिमिति यावत् । कस्य ? धर्मपीयूषसिन्धोधर्मसुधाम्भोधेः । कीदृशम् ? श्रितबहुविधसत्त्वम् । श्रिता आश्रिता बहुविधा आसन्नभव्यादिप्रकाराः सत्वा जीवा यत्र तत्तथोक्तम् । कथम् ? कथमपि महता कष्टेन । किं कुर्वन् ? बम्भ्रमन् कुटिलमटन् । किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org