________________
प्रथमोऽध्यायः।
योगो वर्तते । ततोप्यसंयतसम्यग्दृष्टिश्रावकप्रमत्तसंयतेषु पारम्पर्येण शुद्धोपयोगसाधक उपर्युपरि तारतम्येन शुभोपयोगो वर्तते । तदनन्तरमप्रमत्सादिक्षीणकषायपर्यन्तं जघन्यमध्यमोत्कृष्टभेदेन विवक्षितैकदेशेन शुद्धनयरूपः शुद्धोपयोगो वर्तते । तत्र च मिथ्यादृष्टिगुणस्थाने तावत्संवरो नास्ति । सासनादिगुणस्थानेषु
"सोलसपणवीसणभं दस चउछक्केक बंधबोच्छिण्णा।
दुगतीस चदुरपुब्वे पण सोलस जोगिणो एक्को ॥” इति । बन्धविच्छेदत्रिभङ्गीकथितक्रमेणोपर्युपरि प्रकर्षेण संवरो ज्ञातव्यः । तथा हि । मिथ्यात्वनपुंसकवेदनरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डकसंस्थानाऽसंप्राप्तासृपाटिकासंहनननरकगतिप्रायोग्यानुपूक्तपस्थावरसूक्ष्मापप्तिकसाधारणशरीराणां मिथ्यात्वेन बध्यमानानां सासनादिषु संवरः । निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्ध्यनन्तानुबन्धिकषायस्त्रीवेदतिर्यगायुस्त्रियग्गतिचतुःसंस्थानचतुःसंहननतिर्यग्गतिप्रायोग्यानुपूर्योदयोताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनीचैर्गोत्राणामनन्तानुबन्धिकषायकृतासंयमहेतुकानामेकेन्द्रियादिसासादनान्ता बन्धका, उत्तरत्र संवरः । अप्रत्याख्यानकषायमनुष्यायुमनुष्यगत्यौदारिकशरीरतदङ्गोपाङ्गवज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूर्व्याणामप्रत्याख्यानकषायकृतासंयमनिमित्तानामेकेन्द्रियाद्यसंयतसम्यग्दृष्ट्यन्ता बन्धका, ऊर्ध्वं निरोधः। मिश्रगुणेनायुर्न बध्यते । प्रत्याख्यानकषायाणां प्रत्याख्यानहेत्वऽसंयमास्रवाणामेकेन्द्रियादिसंयतासंयतान्ता बन्धका, ऊर्ध्व संवरः । असद्वेद्यारतिशोकास्थिराशुभायशस्कीर्तीनां प्रमादहेतूनां प्रमत्तादूर्व संवरः। देवायुबन्धारम्भस्य प्रमाद एव हेतुरप्रमादोपि तत्प्रत्या. सन्नः। तत अवं तस्य संवरः । कषायात्रवस्य तन्निरोधे संवरः । सच कषायस्तीव्रमध्यमजघन्यभावेन त्रिषु गुणस्थानेषु स्थितः । अपूर्वस्यादौ निवाप्रचले बध्येते, मध्ये देवगतिपञ्चेन्द्रियजातिवैक्रियिकाहारकतैजसकामणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहारकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलधूपघातपरघातोच्छ्वासप्रशस्तविहायोगतित्रसबा. दरपर्याप्तकप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेयनिर्माणतीर्थकरत्वानि, अन्ते हास्यरतिभयजुगुप्सा बध्यन्ते । एतस्य तीनकषायास्रवस्य ऊर्ध्वं निरोधः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org