________________
८२
अनगारधर्मामृते
साधकम् । किं कृत्वा ? अपोद्धृत्य पृथक्कृत्य । भेदेन विवक्षित्वेत्यर्थः । कस्मात् ? अर्थाद् वस्तुनः श्रुतज्ञान विषयात् । कथंभूतात् ? अनेका. न्तात्मकात् । नैकोऽनेकोऽस्तित्वनास्तित्वनित्यत्वानित्यत्वसामान्यसामानाधिकरण्य विशेषणविशेष्यादिकोऽन्तः स्वभाव आत्मा शरीरं यस्य स एवम् । पुनः कथंभूतात् ? आजसात् । परमार्थसतो, न विकल्पितात् । अत्र दृष्टान्तमाह-शब्दात् तच्छास्त्रवदिति । यथा तच्छास्त्रं शब्दशास्त्रं व्याकरणं मिथ्या न स्यात् । किं कुर्वत् ? प्रकाशयत् । कम्? एकान्तं प्रकृतिप्रत्ययादीनामन्यतमम् । कथंभूतम् ? तदंशं शब्दावयवम् । पुनः कथंभूतम् ? तत्प्राप्युपायं शब्दप्रकाशनकारणम् । पुनरपि कथंभूतम् ? व्यावहारिकम् । किं कृत्वा ? अपोद्धृत्य । कस्मात् ? शब्दाद् देवदत्तः पचनित्यादिकात् । कथंभूतात् ? अनेकान्तात्मकात् प्रकृतिप्रत्ययादिमयात् । पुनः कथंभूतात् ? आअसात् । कुत एतदित्याह-स हीत्यादि । हि यस्मात् स नयः स्यात् । कथंभूतः । मिथ्या। किंविशिष्टः सन् ? अनपेक्षो द्रव्यार्थिकः पर्यायार्थिके पर्यायार्थिकश्च द्रव्यार्थिके निरपेक्षः । कस्मात् ? अनेकान्तक्षेपात् । स्याद्वादनिरासात् । न स्यात् । कोसौ ? अन्यः सापेक्षो नयः। कथंभूतः ? मिथ्या। कस्मात् ? तदत्ययादऽनेकान्तक्षेपाभावात् । स्याद्वादानुसरणादित्यर्थः । प्रादेशिकविशुद्धिसंक्लेशयोः फलमुपदिशतियेनांशेन विशुद्धिः स्याजन्तोस्तेन न बन्धनम् । येनांशेन तु रागः स्यात्तेन स्यादेव बन्धनम् ॥ ११० ॥ न स्यात् । किं तत् ? बन्धनं कर्मबन्धः। कस्य ? जन्तोर्जीवस्य । केन ? तेनांशेन । येन किम् ? येनांशेन स्यात् । कासौ ? विशुद्धी रागद्वेषमोहोपशमः । येनांशेन तु पुना रागो रागाद्यावेशो जन्तोः स्यात् तेन स्थादेव अवश्यं भवेत् । किं तत् ? बन्धनम् । __ अथात्र संवरविषये नयविभागः क्रियते । तथाहि । मिथ्यादृष्टेरारभ्य क्षीणकषायं यावदुपर्युपरि मन्दत्वतारतम्यावतारादशुद्धनिश्चयो वर्तते । तस्य मध्ये पुनर्गुणस्थानभेदेनाशुभशुभशुद्धानुष्ठानरूपमुपयोगत्रयं तिष्ठति । तदुच्यते--मिथ्यादृष्टिसासादन मिश्रगुणस्थानेषूपर्युपरि मन्दत्वेनाशुभोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org