________________
प्रथमोऽध्यायः ।
मत्यादयश्च ते विभावगुणाश्चौपाधिकधर्माः स्युः । कस्य ? चितो जीवस्य । मतिज्ञानादयो हि स्वप्रतिबन्धकक्षयोपशमादिविशेषापेक्षाः स्युः । विभावो हि बहिरङ्गं निमित्तम् । तत्प्रभवा गुणा विभावगुणाः । असद्भूतस्तु व्यवहारः स्यात् । किमाख्यः ? अनुपचरितसंशः । किमुल्लेखः ? देहो मदीय इति । संश्लेषसंबन्धसहितत्वात् । व्यवहारस्योपचरितासद्भूतभेदोलेखाख्यानपूर्वकं प्रकृतार्थोपसंग्रहमाह
देशो मदीय इत्युपचरितसमाहः स एव चेत्युक्तम् ।
नयचक्रमूलभूतं नयषदं प्रवचनपटिष्टैः ॥ १०७ ॥ स एव चासद्भूतव्यवहार उपचरितसमाह्व उपचरितसंज्ञः स्यात् । किमुल्लेखः ? देशो मदीय इति, संश्लेषसंबन्धाभावात् । इत्येवमुक्तं कथितम् । किं तत् ? नयषई नयानां श्रुतज्ञानिनोमिप्रायाणां षट्कम् । किंविशिष्टम् ? नयचक्रमूलभूतं नयचक्रस्य मूलत्वं प्राप्तम् । कैः ? प्रव. चनपटिष्टैः। अध्यात्मतन्त्ररहस्य रित्यर्थः । प्रवचने हि त एव प्रकृष्टं पटवः । एतत्स्वल्पमध्यात्मभाषया प्रतिपादितम् । आगमभाषया तु नैगमादिनयसप्तकमन्यत्रोक्तं प्रतिपत्तव्यम् । नयस्य मिथ्यात्वशङ्कां श्लोकद्वयेन निरस्पति
अनेकान्तात्मकादादपोद्धृत्याञ्जसान्नयः । तत्प्राप्युपायमेकान्तं तदंशं व्यावहारिकम् ॥ १०८ ॥ प्रकाशयन्न मिथ्या स्थाच्छब्दात्तच्छास्त्रवत् स हि । मिथ्याऽनपेक्षोऽनेकान्तक्षेपानान्यस्तदत्ययात् ॥१०९।। न स्यात् । कोसौ ? नयः स्वार्थैकदेशे व्यवसायरूपश्रुतस्याभिप्रायः । कथंभूतः ? मिथ्या असत्यः । किं कुर्वन् ? प्रकाशयन् प्रतीतिमानयन् । कम् ? एकान्तम् । एकश्वासावन्तश्च स्वभाव एकान्तोस्तित्वनास्तित्वादीनामन्यतमस्तम् । कथंभूतम् ? तदंशं तस्यानेकान्तात्मकार्थस्यैकदेशम् । पुनः कथंभूतम् ? तत्प्रात्युपायम्। तस्यानेकान्तात्मकार्थस्य प्राप्तेः प्रकाशनस्योपायः कारणम् । पुनरपि कथंभूतम् ? व्यावहारिक प्रवृत्तिनिवृत्ति
अन० ध०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org