SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते निश्चयनिरपेक्षस्य व्यवहारस्यासद्विषयत्वात्तदुपयोगे स्वार्थभ्रंशं दृष्टान्तेन व्याचष्टे व्यवहारमभूतार्थ प्रायो भूतार्थविमुखजनमोहात् । केवलमुपयुञ्जानो व्यञ्जनवद्भश्यति खार्थात् ॥ ९९ ॥ भ्रश्यति प्रच्यवते साधुर्लोकश्च । कस्मात् ? स्वार्थान्मोक्षसुखात् पक्षे विवक्षिताभिधेयात् स्वास्थ्यानुवृत्यादेवा । किं कुर्वाणः ? उपयुआनो भावयन पक्षे उच्चारयन् भुजानो वा । कम् ? व्यवहारं प्रवृत्तिनिवृत्तिलक्षणम् । किंविशिष्टम् ? अभूतार्थमविद्यमानेष्टविषयम् । कथं कृत्वा ? केवलं निश्चयनिरपेक्षं कादिव्यञ्जनं पक्षे स्वररहितं सूपादिव्यञ्जनं पक्षे घृतौ. दनवर्जितं वा । कस्मात् ? भूतार्थविमुखजनमोहात् । भूतार्थे निश्चयनये विमुखो जनो बहिरात्मलोकः । तजनितान्मोहादज्ञानात् । कथम् ? प्रायो बाहुल्येन । किंवत् ? व्यञ्जनवत् ककाराद्यक्षरं सूपादिशालनं वा यथा । इयमत्र भावना वेजावञ्चणिमित्तं गिलाणगुरुबालबुडसमणाणं । लोगिगजणसंभासा ण णिदिदा वा सुहोवजुया ॥ इति वचनाद्यदा ग्लानादिश्रमणवैयावृत्यपरतत्रो भूत्वा लौकिकजनसंभापणे नितान्तं प्रसज्यते तदा ध्यानादेः प्रमत्तो भूत्वा साधुः स्वार्थात् प्रच्यवते । व्यवहारं विना निश्चयो न सिध्यतीति व्यतिरेकमुखेनाह व्यवहारपराचीनो निश्चयं यश्चिकीर्षति । बीजादिना विना मूढः स सस्यानि सिसृक्षति॥१०॥ सिसृक्षांत उत्पादयितुमिच्छति । कोसौ ? स मूढोऽज्ञः। कानि ? सस्यानि वृक्षादिफलानि । कथम् ? विना केन ? बीजादिना आदिशब्दात्क्षेत्रोदककालादिग्रहः । यः किम् ? यश्चिकीर्षति कर्तुमिच्छति । कम् ? १ वैया त्याने मित्तं ग्लानगुरुवालवृद्धश्रमणानाम् । लौकिक जनसंभाषा न निन्दिता वा शुभोपयुता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy