________________
प्रथमोऽध्यायः।
धारणं तिः । कस्य ? स्वस्य । किंविशिष्टस्य ? निस्पृहस्य लाभपूजा. ख्यात्यपेक्षारहितस्य । तथा स्यात् । कासौ ? सिद्धिः। केषाम् ? एषाम् । किम् ? पूर्णता संपूर्णीकरणम् । कस्य ? स्वस्य । किंविशिष्टस्य ? भवभयभृतः संसाराद्विभ्यतः । तथा स्यात् । कासौ ? निस्तीनिनिस्तरणमेषाम् । तुर्विशे । किं तत् ? तटप्रापणं मरणान्तनयनम् । कस्य ? स्वस्याराधकात्मनः। कथं कृत्वा ? स्थिरं निःक्षोभम् । क्व सति ? कृच्छपातेपि परीषहो. पसर्गसंसर्गेपि। सम्यक्त्वादीनां मलान् लक्षयति
शङ्कादयो मला दृष्टेय॑त्यासानिश्चयौ मतेः।
वृत्तस्य भावनात्यागस्तपसः स्यादसंयमः ॥ ९७ ॥ भवन्ति । के ? मला अतीचाराः । कस्याः ? दृष्टेः । के ते? शङ्कादयः। तथा भवन्ति । के ? मलाः । कस्याः ? मतेज्ञानस्य । कौ ? व्य. त्यासाऽनिश्चयो । व्यत्यासो विपर्ययः। अनिश्चयः संशयोऽनध्यवसायश्व । ईषत् सामान्याकारेण निश्चयोऽनिश्चयः संशयः । तथाऽविद्यमानो निश्चयो. ऽनिश्चयो मोहः । तथा भवति । कोसौ ? मलः । कस्य ? वृत्तस्य । किम् ? भावनात्यागः भावनानां निगृह्णतो वाग्मनसी इत्यादिना प्रतिव्रतं पञ्चानां वक्ष्यमाणानां वर्जनम् । तथा स्यान्मलः । कस्य ? तपसः। किम् ? असंयमः प्राणिव्विन्द्रियेषु च विरत्यभावः। उद्योतादिभिर्भजन्नित्युक्तम् । भक्तिश्चाराधना । अतस्तल्लक्षणमाह
वृत्तिर्जातसुदृष्ट्यादेस्तद्गतातिशयेषु या।
उद्योतादिषु सा तेषां भक्तिराराधनोच्यते ॥ ९८॥ उच्यते कथ्यतेस्माभिः । तेषां दृष्टयादीनां भक्तिः साऽऽराधना । या किम् ? या स्यात् । कासौ ? वृत्तिः। केषु ? तद्गतातिशयेषु सुदृष्टयाधाश्रितविशेषेषु । किंविशिष्टेषु ? उदयोतादिषु । कस्य ? जातसुदृष्ट्यादेरुत्पनसम्यग्दर्शनादिपरिणामस्य पुंसः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org