SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात् । लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ इति । व्यवहारमार्गमारूढः समाधिलक्षणेन निश्चयमार्गेण कर्मशत्रून्निराकुर्यादित्याह श्रद्धानगन्धसिन्धुरमदुष्टमुद्यदवगममहामात्रम् । धीरो व्रतबलपरिवृतमारूढोरीन् जयेत्प्रणिधिहेत्या ॥९५॥ जयेद् निगृह्णीयात् । कोसौ ? धीरोऽकातरो मुमुक्षुर्जिगीषुश्च । कान् ? अरीन् कर्मशत्रून् प्रतिपक्षांश्च । कया ? प्रणिधिहेत्या समाधिशस्त्रेण । किंविशिष्टः सन् ? आरूढोधिष्ठितः । कम् ? श्रद्धानगन्धसिन्धुरम् । श्रद्धानं गन्धसिन्धुरो गन्धहस्तीव, स्वपक्षबलाधायकत्वात् परपक्षोपमर्दकत्वाच्च । किंविशिष्टम् ? अदुष्टं निर्दोषं विधेयं च । पुनः किं विशिष्टम् ? उद्य वगममहामात्रम् । अवगमो ज्ञानं महामात्रो नियन्तेव अभिमतसिद्ध्युपायप्रदर्शकत्वात् । उद्यन्नुलसन्नऽवगममहामानो यस्य । पुनरपि किंविशिटम् ? व्रतबलपरिवृतम् । व्रतानि बलानि सैन्यानीव प्रतिबलनिरोधकत्वात् । व्रतबलैः परिवृतः परिवारितः । उद्योतादीनि लक्षयति दृष्ट्यादीनां मलनिरसनं द्योतनं तेषु शश्वद्,वृत्तिः खस्योद्यवनमुदितं धारणं निस्पृहस्य । निर्वाहः स्याद्भवभयभृतः पूर्णता सिद्धिरेषां, निस्तीर्णिस्तु स्थिरमपि तटप्रापणं कृच्छ्रपाते ॥ ९६ ॥ उदितमुक्तमाचार्यैः । किं तत् ? द्योतनमुद्द्योतः । केपाम् ? दृष्ट्यादीनां सम्यग्दर्शनज्ञानचारित्रतपसाम् । किम् ? मलनिरसनं निर्मलीकरणम् । तथोदितम् । किं तत् ? उदृद्यवनम् । केषाम् ? एषां दृष्टयादी. नाम् । किम् ? वृत्तिर्वर्तनमेकलोलीभावः । कस्य ? स्वस्याराधकात्मनः । एतत्पूर्वोत्तरत्र च योज्यम् । केषु ? तेषु दृष्टयादिषु । कथम् ? शश्वनित्यम् । तथा स्यात् । कोसौ ? निर्वाहो निराकुलं वहनमेषाम् । किम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy