________________
प्रथमोऽध्यायः ।
परमार्थसत् पुरुषादितत्त्वं विषयो गोचरो यस्य तं तथोक्तम् । कस्मात् ? व्यवहारतः। विधिपूर्वकमवहरणं संभजनं यस्मादसौ व्यवहारोऽशुद्धद्रव्यार्थिकं यत् तमाश्रित्य । तथा भवेत् । किं तत् ? सज्ज्ञानं व्यवहारतः । किम् ? बोधनं संवेदनम् । किंविशिष्टम् ? पुरुषादितत्त्वविषयम् । तथा भवेन्यवहारतः सुचरितम् । किम् ? अवद्योज्झनं हिंसादिपापपञ्चकवर्जनम् । कैः ? कृतकारितानुमतिभिः करणकारणानुमोदनैः । किंक्रियमाणैः ? योगैमनोवाकायैः । मनसा करणं कारगमऽनुमोदनं च । हिंसादीनां वर्जयतो व्यावहारिकं सम्यक्चारित्रं भवेत् । तथा वाचा कायेन च । किंविशिष्टम् ? तत्पूर्व सद्ज्ञानहेतुकं । भवेयुश्च । कानि ? तान्येव त्रीणि । किम् ? रत्नत्रयं रत्नत्रयमिति संज्ञितानि । चारित्रेन्तर्भूतमप्याराधनायां पृथक्पतितत्वात् किंलक्षणं तपः स्यादित्यत्राह-तपश्च भवेत् । किम् ? इच्छानिरोध इच्छाया इन्द्रियानिन्द्रियद्वारप्रवृत्ताया विषयवाञ्छाया निरोधो नियमानुष्ठानम् । किमर्थम् ? तस्य रत्नत्रयस्याविर्भावनार्थ व्यक्तीकरणार्थमेव, न लाभाद्यर्थम् । रत्नत्रयाविर्भावार्थमिच्छानिरोधस्तप इति ह्यागमः।
श्रद्धानादित्रयसमुदायेनैव भावितं हेयमुपादेयं च तत्त्वं रसायनौषधमिव समीहितसिद्धये स्यान्नान्यथेति प्रथयति
श्रद्धानबोधानुष्ठानस्तत्त्वमिष्ठार्थसिद्धिकृत ।
समस्तैरेव न व्यस्तै रसायनमिवौषधम् ॥ ९४ ॥ भवति । किम् ? तत्त्वं वस्तुयाथात्म्यम् । किंविशिष्टम् ? इष्टार्थसिद्धिकृदऽभ्युदयनिःश्रेयससंपादकम् । कैर्विषयीकृतम् ? श्रद्धानबोधानुष्ठान रुचिज्ञानाचरणैः । किंविशिष्टैः ? समस्तैरेव त्रिभिरेव समुदितैर्न व्यस्तैरे. कैकेन द्वाभ्यां वा । किमिव ? रसायनं औषधमिव स्वास्थ्यानुवृत्तिकड्रोगोच्छेदकर द्रव्यं यथा । क्रिविशिष्टं भवति ? इष्टार्थसिद्धिकृद् दीर्घायुप्यादिसाधनम् । कैः ? श्रद्धानबोधानुष्ठानैः समस्तैरेव न व्यस्तैः । उक्तं चदीर्घमायुः स्मृतिर्मेधा व्यारोग्यं तरुणं वयः। प्रभावर्णस्वरौदार्य देहेन्द्रियबलोदयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org