________________
७४
अनगारधर्मामृते
"स्युर्मिथ्यादर्शनशानचारित्राणि समासतः। बन्धस्य हेतवोन्यस्तु त्रयाणामेव विस्तरः ॥” इति । अपि चरत्नत्रयमिह हेतुर्निर्वाणस्यैव भवति नान्यस्य । आस्रवति यत्तु पुण्यं शुभोपयोगस्य सोयमपराधः॥ असमग्रं भावयतो रत्नत्रयमस्ति कर्मबन्धो यः।
स विपक्षकृतोवश्यं मोक्षोपायो न बन्धनोपायः॥ निश्चयरत्नत्रयं केन साध्यत इत्याह
उद्योतोयवनिर्वाहसिद्धिनिस्तरणैर्भजन् ।
भव्यो मुक्तिपथं भाक्तं साधयत्येव वास्तवम् ॥ ९२॥ - साधयत्येव नियमेन जनयति । कोसौ ? भव्यः। कम् ? मुक्तिपथं मोक्षमार्गम् । किंविशिष्टम् ? वास्तवं पारमार्थिकम् । वस्त्वेव वस्तुनि भवो वा वास्तवः । किं कुर्वन् ? भजन्नाराधयन् । कम् ? मुक्तिपथम् । किंविशिष्टम् ? भाक्तं व्यावहारिकम् । भञ्जनं भजनं वा भक्तिः । भक्तिरेव भक्तौ भवो वा भाक्तो भेदरूपः । कैः ? उद्योतोयवनिर्वाह सिद्धिनिस्तरणैः । उद्योतादीनि वक्ष्यन्ते । उद्यवनमुधव उत्कृष्टं मिश्रणम् । व्यवहाररत्नत्रयं लक्षयति
श्रद्धानं पुरुषादितत्त्वविषयं सद्दर्शनं बोधनं, सज्ज्ञानं कृतकारितानुमतिभिर्योगैरवद्योज्झनम् । तत्पूर्व व्यवहारतः सुचरितं तान्येव रत्नत्रयं,
तस्याविर्भवनार्थमेव च भवेदिच्छानिरोधस्तपः ॥९३॥ भवेदित्यन्तदीपकत्वात् प्रतिवाक्यं योज्यम् । भवेत् । किं तत् ? सहर्शनं सम्यक्त्वम् । किम् ? श्रद्धानं रुचिः । किंविशिष्टम् ? पुरुषादित. स्वविषयम् । पुरुषो जीव आदिर्येषामजीवास्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाणां ते पुरुषादयो नव पदार्थाः । तेषां तत्त्वं याथात्म्यं त एव वा तत्वं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org