________________
प्रथमोऽध्यायः।
न्यम् । अर्थ्यते निश्चीयते इत्यर्थः परमऽपरं च वस्तु । मिथ्या विपरीतः प्रमाणबाधितोर्थो मिथ्यार्थः । सर्वथैकान्त मिथ्यार्थस्याभिनिवेश आग्रहो मिथ्यार्थाभिनिवेशः । तेन शून्यं रहितम् । अथवा मिथ्या अर्थाभिनिवेशो यस्मात्तन्मिथ्याभिनिवेशं दर्शनमोहनीयं कर्म । तेन शून्यमात्मनो रूपं निश्चयसम्यग्दर्शनं स्यात् । तथाऽभवत्संदेहमोहभ्रमम् । स्थाणुर्वा पुरुषो वेति चलिता प्रतीतिः संदेहः । मोहो गच्छत्तृणस्पर्शज्ञानवत्तदर्थानध्यव. सायः । भ्रमोऽतस्मिंस्तदिति ग्रहणम् स्थाणौ पुरुषज्ञानवत् । संदेहश्च मोहश्च भ्रमश्च संदेहमोहभ्रमाः । अभवन्तोऽविद्यमानाः संदेहमोहभ्रमा यस्य तदात्मनो रूपं निश्चयसम्यग्ज्ञानं स्यात् । तथा वान्ताशेषकषायकर्मभिदुदासीनम् । वान्ताश्चर्दिताः स्वतो विश्लेषिता अशेषाः सर्वे कषायाः कोधादयो हास्यादयश्च यस्य तद्वान्ताशेषकषायम् । कर्म ज्ञानावरणादि मनोवाक्कायव्यापारांश्च भिनत्ति नाशयतीति कर्मभित् । उदास्यते इत्युदासीनमुपेक्षाशीलम् । वान्ताशेषकषायं च तत्कर्मभिच्च तद् वान्ताशेषकषायकर्मभित् । तच्च तदुदासीनं च तत् । तथाभूतमात्मनो रूपं निश्चयसम्यक्चारित्रं स्यात् । तथा चोक्तं तत्त्वार्थश्लोकवार्तिके
"मिथ्याभिमाननिर्मुक्तिर्ज्ञानस्येष्टं हि दर्शनम् । ज्ञानत्वं चार्थविज्ञप्तिश्चर्यात्वं कर्महन्तृता ॥” इति ॥ सद्गवायवृत्तमिति संहतिप्रधान निर्देशाच्च तत्रयमय आस्मैव निश्चय. मोक्षमार्ग इति लक्षयति । तदुक्तम्
णिच्छयणएण भणिओ तिहिं तेहिं समाहिदो हु जो अप्पा ।
ण गहदि किंचि वि अण्णं ण मुयदि सो मोक्खमग्गोत्ति ॥ तत्पुनस्वयं पूर्ण समग्रं सद् भवति । किम् ? अयनं मार्गः । कस्य ? शिवस्यैव मोक्षस्यैव, न संवरनिर्जरयो प्यभ्युदयस्य । इतरत् । पुनर्व्यवहाररूपमपूर्ण च तद् रुन्द्ध निवारयति निर्जरयत्यपि एकदेशेन क्षपयति च । किं तत् ? अघमशुभकर्म पुण्यपापद्वयं वा । सर्वस्य कर्मणो जीवापकारकत्वेनाशुभत्वात् । बन्धस्तु भवति । कस्मात् ? तद्यत्ययाद् मिथ्यादर्शनादित्रयात् । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org