________________
अनगारधर्मामृते
तान्येव रूपं लक्षणं यस्याः सा तथोक्ता । स च धर्म उच्यते अभिधीयते आप्तैरर्थात् अर्थमभिधेयं परमार्थ वाश्रित्य । कथम् ? इति । किमिति! धरति अवस्थापयति । कोसौ ? धर्मः । कम् ? जीवम् । व ? शिवसुखे । कस्मात् ? जन्मदुःखात संसारदुःखदूरमुत्सार्य। किं विशिष्टः सन् ? संजातोऽयोगिचरमसमये संपूर्णीभूतः । किं कुर्वन् ? अवधुन्वन्नवशेषं व्यावतयन् । कम् ? अधर्मम् । किंविशिष्टम् ? मिथ्येत्यादि । मिथ्या विपरीतान्यऽसद्रूपाणि वा रुचिमतिचरणानि दर्शनज्ञानाविरतिप्रमादकषाययोगलक्षणानि । तान्येवाकारो रूपं यस्य स मिथ्यारुचिमतिचरणाकारः। स चासौ संक्लेशोऽविशुद्धिपरिणामः । आर्तरौद्रपरिणतिरिति यावत् । स एव रूप यस्य । पुनः किंविशिष्टम् ? मूलं कारणम् । कस्य ? बन्धस्य पुण्यपापस्य । किंविशिष्टस्य ? दुःखप्रभवभवफलस्य । दुःखं प्रभवत्यस्मादस्मिन्वेति दुःखप्रभवो भवः संसारः फलं कार्य यस्य स एवम् । किं कृत्वा धर्मस्तथा भवतीत्याह-प्राप्य लब्ध्वा । काम् ? स्वां निजां सामग्री बाह्याभ्यन्त. रकारणकलापं सद्ध्यानं वा तथा चोक्तम्
स च मुक्तिहेतुरिद्धो ध्याने यस्मादवाप्यते द्विविधोपि । तस्मादभ्यस्यन्तु ध्यानं सुधियः सदाप्यपास्यालस्यम् ॥ इति । निश्चयरत्नत्रयलक्षणनिर्देशपुरःसरं मोक्षस्य संवरनिर्जरयोर्बन्धस्य च कारणं प्रणिगदति
मिथ्यार्थाभिनिवेशशून्यमभवत्संदेहमोहभ्रमं, वान्ताशेषकषायकर्मभिदुदासीनं च रूपं चितः । तत्त्वं सद्गवायवृत्तमयनं पूर्ण शिवस्यैव तद् , रुन्द्रे निजेरयत्यपीतरदऽघं बन्धस्तु तयत्ययात् ॥९१ ॥ भवति । किं तत् ? सद्गवायवृत्तम् । दृक्क दर्शनमवायश्च ज्ञानं वृत्तं च चारित्रं दृगवायवृत्तम् । सत् समीचीनम् । सच तद् दृगवायवृत्तं च सदृगवायवृत्तं सम्यग्दर्शनज्ञानचारित्रम् । किंविशिष्टम् ? तत्त्वं परमार्थभूतम् । निश्चयरूपमित्यर्थः । किं तत् त्रयं तत्त्वं स्थादित्याह-रूपमाकारः । कस्य ? चितश्चेतनस्यात्मनः । किंविशिष्टम् ? मिथ्यार्थाभिनिवेशशू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org