________________
प्रथमोऽध्यायः ।
प्रकारेण श्रवणादीनां धर्मसाधनानां मध्ये एकेन व्यादिना वा । तत्र श्रुतिगुर्वादिभ्यो धर्मस्य श्रवणम् । स्मृतिरात्मना स्मरणम् । स्तुतिर्गुणसंकीर्तनम् । समर्थना युक्त्यनुगृहीतागमबलाब्यवस्थापनम् । चरणमनुष्ठानम् । चारणमनुष्ठापनम् । अनुमतमनुमोदनम् ।
ननु लोकादेवावगम्य धर्मशब्दार्थोनुष्ठाप्यते, तत्किं तदर्थप्रतिपादनाय शास्त्रकरणप्रयासेन ? इति वदन्तं प्रत्याह
लोके विषामृतप्रख्यभावार्थः क्षीरशब्दवत् ।।
वर्तते धर्मशब्दोपि तत्तदर्थोनुशिष्यते ॥ ८९ ॥ वर्तते व्यवहरति । कोसौ ? धर्मशब्दोपि । क ? लोके जगति । किंत्रिशिष्टः ? विषामृतप्रख्यभावार्थः। भवतीति भावः पूर्वाकारपरित्यागाऽजहद्वत्तोत्तराकारग्रहणलक्षणं वस्तु । विषं चामृतं च विषामृते । ताभ्यां प्रख्यस्तुल्यो भावोर्थोभिधेयं यस्य स तथोक्तः । किंवत् ? क्षीरशब्दवत् । अयमों-यथा लोके क्षीरमिति शब्देन विषतुल्योऽर्कादिरसोऽमृततुल्यो गवादिरसश्वोच्यते तथा धर्म इति शब्देन दुर्गतिदुःखप्रदो हिंसादिलक्षणो विषतुल्योऽहिंसादिलक्षणश्चामृततुल्योर्थोभिधीयते । तत् तस्मात्तद्विवेकार्थमनुशिष्यते पारम्पर्योपदेशानुगतं व्युत्पाद्यतेस्माभिः । कोसौ ? तदर्थों धर्मशब्दार्थः। ___ धर्मशब्दार्थ प्रव्यक्तीकरणार्थमाहधर्मः पुंसो विशुद्धिः सुदृगवगमचारित्ररूपा स च खां, सामग्री प्राप्य मिथ्यारुचिमतिचरणाकारसंक्लेशरूपम् । मूलं बन्धस्य दुःखप्रभवभवफलस्यावधुन्वन्नधर्म, संजातो जन्मदुःखाद्धरति शिवसुखे जीवमित्युच्यतेर्थात् ९०
भवति । कोसौ ? धर्मः । किम् ? विशुद्धिनैर्मल्यम् । कस्य ? पुंसो जीवस्य । किंविशिष्टा ? सुदृगवगमचारित्ररूपा । दृक् च दर्शनमवगमश्च ज्ञानं चारित्रं च साम्यं दृगवगमचारित्राणि । शोभनानि मौढ्यसंशयमाया'दिविपर्यासपरित्यक्तत्वात्प्रशस्तानि संपूर्णानि वा सुदृगवगमचारित्राणि ।
Jain Education International
onai
For Private & Personal Use Only
www.jainelibrary.org