________________
अनगारधर्मामृते
दुर्लभं दुष्प्रापं येषु । क्व ? जगति सर्व स्मॅिल्लोके । किंविशिष्टे ? अनन्तैकहृषीकसंकुले एकं स्पर्शनाख्यं हृषीकमिन्द्रियं येषां ते एकहृषीका एके. न्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिकायिका जीवा अनन्ता अनन्तपरिमाणाः । ते च ते एकहषीकाश्च । तैः संकुले निरन्तरपूरिते । सत्वं च द्वीन्द्रियादित्वं संज्ञित्वं च मनस्कत्वं मनुष्यता च मानुष्यमाऽऽर्यता चार्यत्वमिति द्वन्द्वः । तथा सुगोत्रं च सत्कुलं सगात्रं च सुशरीरं विभूतिश्च संपद् वार्तता चारोग्यं सुधीश्च सद्बुद्धिः सुधर्मश्च सद्धर्मश्चेति द्वन्द्वः । लोके हि जीवः खोपात्तकर्मोदयवशादेकेन्द्रियो भूयो भवन् कथंचिद् द्वीन्द्रियो भवति । द्वीन्द्रियत्वात्पुनरेकेन्द्रिय एव स्यात् , कथंचित् त्रीन्द्रियत्वं प्रामोति । एवं चतुरिन्द्रियत्वादावपि योज्यम् । त्रीन्द्रियत्वाच्चतुरिन्द्रियत्वं दुःखेन लभते; ततोऽसंज्ञिपञ्चेन्द्रियत्वं, ततः संज्ञिपञ्चेन्द्रियत्वं, तत्रापि नारकादित्वं ततोपि मनुष्यत्वं, तत्रापि म्लेच्छत्वं ततोप्यायत्वं, तत्रापि सुगोत्रं, तत्रापि सद्गात्रं, तत्रापि विभूतिं तत्राप्यारोग्यं, तत्रापि सद्बुद्धिं तत्रापि सम्यग्धर्मम् । इति यथोत्तरदुर्लभत्वं चिन्त्यम् । धर्माचरणे नित्योद्योगमुद्बोधयतिस ना स कुल्यः स प्राज्ञः स बलश्रीसहायवान् । स सुखी चेह चामुत्र यो नित्यं धर्ममाचरेत् ॥ ८७ ॥ यो जीवो नित्यं सदा धर्ममाचरेदऽनुतिष्ठेत् स ना पुमान् अन्यस्तु स्त्री नपुंसकं वा भवति । स कुल्यः कुलीनोऽन्यो दुष्कुलीनः । स प्राज्ञः प्रज्ञातिशयवानऽन्योऽप्राज्ञः। स बलवान् श्रीमान सहायवांश्चान्योऽन्यथा। स चेहामुत्र च सुखी अन्यो लोकद्वयेपि दुःखी। धर्मार्जनविमुखस्य गुणान् प्रतिक्षिपतिधर्म श्रुतिस्मृतिस्तुतिसमर्थनाचरणचारणानुमतैः । यो नार्जयति कथंचन किं तस्य गुणेन केनापि ॥ ८८॥ किं कार्यम् ? केन ? गुणेन । किंविशिष्टेन ? केनापि पुंस्त्वकुलीनत्वादीनामन्यतमेन । कस्य ? तस्य । यः किम् ? यो नार्जयति नात्मसात्करोति । कम् ? धर्मम् । कैः ? श्रुत्यादिभिः। कथम् ? कथंचन केनापि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org