________________
प्रथमोऽध्यायः।
६९
ताहग्दुष्टमपि मानुषत्वं परमसुखफलधर्माङ्गत्वेन सर्वोत्कृष्टं विदध्यादिति शिक्षयति
बीजक्षेत्राहरणजननद्वाररूपाशुचीदृग्,दुःखाकीर्ण दुरसविविधप्रत्ययातय॑मृत्यु । अल्पाग्रायुः कथमपि चिराल्लब्धमीदृग् नरत्वं,
सर्वोत्कृष्टं विमलसुखकद्धर्मसियैव कुर्यात् ॥ ८५॥ कुर्याद् विदध्यात् सुधीः । किं तत् ? नरत्वं मनुष्यत्वम् । किंविशिष्टम् ? सर्वोत्कृष्टं सर्वेभ्यो देवत्वादिपर्यायेभ्य उत्तमम् । कया ? विमलसुखकृद्धर्मसिद्ध्या । विमलं दुःखावहपापानुषङ्गरहितं सुखं शर्म करोतीति विमलसुखकृत् । स चासो धर्मश्च । तस्य सिद्ध्या साधनेन । तयैव नान्यथाभूतधर्मार्थकामसाधनेन । किं विशिष्टं सत् ? कथमपि चिराल्लब्धं म. हता कष्टेन बहुतरकालात्प्राप्तम् । कथं कृत्वा ? ईदृक् सद्धर्माङ्गजातिकुलाद्युपेतम् । स्वरूपतस्तर्हि कीदृग्नरत्वमित्याह-बीजेत्यादि । बीजं शुक्रातवम् । क्षेत्रं मातृगर्भः । आहरणं मातृनिगीर्णान्नपानम् । जननद्वारं शुक्रार्तवपथः । रूपं दोषाद्यात्मकत्वसदातुरत्वम् । बीजं च क्षेत्रं चाहरणं च जननद्वारं च रूपं चेति द्वन्द्वे, तैरशुचि अमेध्यम् । तथेग्दुःखाकीर्णम् । ईदृशं गर्भादिवार्द्धिक्यान्तानि दुःखानि ईदग्दुःखानि । तैराकीर्ण व्याप्तम् । तथा दुरसविविधप्रत्ययातय॑मृत्यु । दुरसो दुर्णिवारो विविधप्रत्ययो व्याधिशस्त्राशनिपातादिहेतुकोऽतक्यों देशकालादिभिरनिरूप्यागमनो मृत्युमरणं यस्मिन् । तथाऽल्पाग्रायुः अल्पं स्तोकमग्रं परमायुर्यत्र । इह हीदानी मनुष्याणामुत्कर्षेणापि विंशं वर्षशतं जीवितमाहुः । जीवस्य त्रसादीनां यथोत्तरदुर्लभत्वं चिन्तयतिजगत्यनन्तैकहषीकसंकुले त्रसत्वसंज्ञित्वमनुष्यतार्यताः । सुगोत्रसगात्रविभूतिवार्ततासुधीसुधर्माश्च यथाग्रदुर्लभाः ८६
भवन्ति । के ? सत्वादयः सुगोत्रादयश्च दश भावाः। किंविशिष्टाः ? यथाग्रदुर्लभाः । यद्यदग्रं पाठापेक्षयोत्तरं, यथाग्रं यथोत्तरम् । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org