________________
६८
अनगारधर्मामृते
जरानुभावं भावयतिविस्रसोदेहिका देहवनं नृणां यथा यथा ।
चरन्ति कामदा भावा विशीयन्ते तथा तथा ॥ ८३॥ यथा यथा चरन्ति भक्षयन्ति । काः ? विस्त्रसोद्देहिका विस्रसा जरा उद्देहिकाः क्षुद्रजन्तव इव । किं तत् ? देहवनम् । देहो वनमाराम इव यनपोष्यपाल्यत्वात् । केषाम् ? नृणां मनुष्याणाम् । तथा तथा विशीर्यन्ते स्वयमेव विनश्यन्ति । के ते? भावाः सौन्दर्यबलोपचयादयः पल्लवपुष्पफलादयश्च । किंविशिष्टाः ? कामदाः कन्दर्पोद्दीपका मनो. रथपूरकाश्च । जरातिव्याप्तिं चिन्तयतिप्रक्षीणान्तःकरणकरणो व्याधिभिः सुष्ट्रिवाधि,स्पर्द्धादग्धः परिभवपदं याप्यकम्प्राक्रियाङ्गः। तृष्णेयायैर्विलगितगृहः प्रस्खलविवदन्तो, अस्येताद्धा विरस इव न श्राद्धदेवेन वृद्धः ॥ ८४ ॥ न ग्रस्येत न भक्ष्येत । कोसौ ? वृद्धो जरातिव्याप्तिमान् । केन ? श्राद्धदेवेन यमेन । कथम् ? अद्धा झटिति । किंविशिष्ट इव ? विरस इव विरूपस्वाध इव। यः किल विरसाहारः स्यात् स श्राद्धदेवेन क्षयाहभोज्यब्राह्मणेन झगिति न भुज्यते इत्युक्तिलेशः । किंविशिष्टो वृद्धः ? प्रक्षी. णानि प्रक्षेतुमारब्धानि विनाशोन्मुखानि अन्तःकरणं मनः करणानि चेन्द्रियाणि यस्यासौ प्रक्षीणान्तःकरणकरणः । तथा दग्धो निःसारीकृतः । कैः ? व्याधिभिः कासश्वासादिभिः । कथम् ? सुष्छु अत्यर्थम् । कस्मादिव ? आधिस्पर्द्धादिव मनोदुःखैः सह स्पर्द्धया यथा । तथा परिभवपदं तिरस्कारस्थानम् । तथा याप्यकम्प्राक्रियाङ्गः । याप्यानि कुत्सितानि कम्प्राणि कम्पनशीलानि अक्रियाणि अकर्माणि अङ्गानि हस्तपादाद्यवयवा यस्य । तथा विलगितगृह उपतप्तकलत्रादिलोकः । कैः ? तृष्णेाद्यैरतिलोभाऽक्षमादुर्वचनादिभिः । तथा प्रस्खलद्वित्रदन्तः प्रस्खलन्तः प्रचलन्तो द्वौ वा त्रयो वा दन्ता यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org