________________
प्रथमोऽध्यायः।
सन् ? हताशश्छिन्नप्रत्याशः । किं क्रियमाणः ? आवय॑मानः। लङ्घनादिना पुनः पुनः कदर्थ्यमानः। कैः ? दायादाद्यैतृभागिनेयादिभिः । कथम् ? क्रूरं कर्कशम् । वा अथवा छिद्यमानो वियोज्यमानः । कैः सह ? पुत्राद्यैः । केन ? मृत्युना अन्तकेन । वा अथवा बाध्यमानः पीड्यमानः । कैः ? रोगाद्यैर्व्याधिवन्दिकारादिभिः । मध्यवयसो विपद्भिररतिं जीवितोपरतिं च निरूपयति
पिपीलिकाभिः कृष्णाहिरिवापद्भिर्दुराशयः ।
दंदश्यमानः क रतिं यातु जीवतु वा कियत् ॥ ८१ ॥ क्क स्थानासनादौ ? न वापि । यातु प्राप्नोतु । कोसौ ? मध्यावस्थः पुमान् । काम् ? रतिम् । किं क्रियमाणः ? दंदश्यमानो गर्हितं खाद्यमानः । काभिः ? आपद्भिर्विपद्भिः। क इव काभिः ? पिपीलिकाभिः कीटिकाभिः कृष्णाहिरिव कृष्णसर्पो यथा । अत एव दुराशयः संक्तिष्टचित्तो जीवतु वा कियत् कियच्चिरं प्राणितु । पलितोद्भवदुःखमालक्षयति
जराभुजङ्गीनिर्मोके पलितं वीक्ष्य वल्लभाः।
यान्तीरुद्वेगमुत्पश्यन्नप्यपैत्योजसोन्वहम् ॥ ८२॥ अपैति प्रच्यवति । कोसौ ? वार्द्धिक्याभिमुखः पुमान् । कस्मात् ? ओजसः शुक्रातधातुपरमतेजसः । कथम् ? अन्वहं दिने दिने । किं कुर्वन् ? उत्पश्यनुत्प्रेक्षमाणः । किं पुनर्निश्चिन्वन्नित्यपिशब्दार्थः । काः ? वल्लभाः प्रियाः । किं कुर्वन्तीः ? यान्तीगच्छन्तीः । कथम् ? उद्वेगं वि. रागम् । किं कृत्वा ? वीक्ष्य । किं तत् ? पलितं शुक्लकेशम् । किंविशिष्टम् ? जराभुजङ्गीनिर्मोकम् । जरा विस्रसा भुजङ्गी सीव नित्यातङ्कहेतुत्वात् । तस्या निर्मोक कञ्चकम् । वीक्ष्योत्पश्यनिति वा योज्यम् । अत्रौ. जसः प्रच्यवः प्रियाविरागसंभावनान्निश्वेयः । तथा चोक्तम्
"ओजः क्षीयेत कोपाध्यानशोकश्रमादिभिः।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org