________________
अनगारधर्मामृते
असौ देशान्तरेपि धनाशया पुनः खिद्यते इत्याह
आशया जीवति नरो न ग्रन्थावपि बद्धया।
पञ्चाशतेत्युपायज्ञस्ताम्यत्यर्थाशया पुनः ॥७८ ॥ ताम्यति खिद्यते । कोसौ ? उपायज्ञः कर्मादिजीवनोपायवित् कारुकः । कया ? अर्थाशया। कथम् ? पुनर्भूयः । कथम् ? इति एवं लोकोक्त्या जीवति । कोसौ ? नरः। कया? आशया । न जीवति । कोसौ ? नरः । कया ? पञ्चाशता द्रम्माणाम् । किंविशिष्टया ? बद्धया । व ? ग्र. स्थावपि वस्त्राञ्चलबन्धनेपि । इष्टलाभेपि तृष्णानुपरतिं दर्शयति
कथं कथमपि प्राप्य किंचिदिष्टं विधेर्वशात् ।
पश्यन् दीनं जगद्विश्वमप्यधीशितुमिच्छति ॥ ७९ ॥ इच्छति वाञ्छति । कोसौ ? पुरुषः । किं कर्तुम् ? अधीशितुं स्वाधीनं कर्तुम् । किं तत् ? जगत् । किं विशिष्टम् ? विश्वमपि समस्तमपि । किं कुर्वन् ? पश्यन्नीक्षमाणः । किं तत् ? विश्वमपि जगत् । किंविशिष्टम् ? दीनं स्वस्माद्वीनम् । किं कृत्वा ? प्राप्य । किं तत् ? किंचित् किमपीष्टं वाञ्छितम् । कथं ? कथं कथमपि अतिमहता कप्टेन । कस्मात् ? वशास् सामर्थ्यात् । कस्य ? विधेः पुराकृतशुभकर्मणः । साधितधनस्यापरापरा बिपदो दर्शयतिदायादाद्यैः क्रूरमावय॑मानः
पुत्राद्यैर्वा मृत्युना छिद्यमानः । रोगाद्यैर्वा बाध्यमानो हताशो
दुर्दैवस्य स्कन्ध विग्बिभर्ति ॥ ८० ॥ धिक खेदे । बिभर्ति धरति ? कोसौ ? मध्यावस्थो मर्त्यः । किं तत् ? स्कन्धकं कालनियमेन देयमृणम् । कस्य ? दुर्दैवस्य दुर्विधेः । किंविशिष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org