SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । www Param कारुकर्मादीन् प्रतिक्षिपति चित्रैः कर्मकलाधमैः पराम्यापरो मनः । हतुं तदर्थिनां श्राम्यत्यातपोष्येक्षितायनः ॥ ७६ ॥ श्राम्यति खिद्यते । कोसौ ? शिल्पाद्याजीवनः पुमान् । कैः ? कर्मकलाधमैः कर्माणि काष्ठघटनादीनि । कला गीतनृत्यादयः । धर्मो मूल्येन पुस्तकवाचनादिः । कर्माणि च कलाश्च धर्मश्चेति द्वन्द्वः । किंविशिष्टैः ? चित्रै नाप्रकारैराश्चर्यकरैर्वा । किं कर्तुम् ? हतु रयितुम् । किं तत् ? मनश्चित्तम् । केषाम् ? तदर्थिनां कर्माद्याकाक्षिणाम् । किंविशिष्टः सन् ? परास्यापरः परेषु कर्माद्याजीवेवसूया गुणेष्वपि दोषारोपणं, सा परा प्रधानं यस्य । पुनः किंविशिष्टः ? आर्तपोष्येक्षितायनः आतैः क्षुधा. पीडितैः पोष्यैः कलत्रपुत्रादिभिरीक्षितं गवेषितमयनं मार्गो यस्य स तथोक्तः। कारुकदुरवस्थाः कथयतिआशावान् गृहजनमुत्तमर्णमन्या नप्याप्तैरिव सरसो धनैधिनोति ।। छिन्नाशो विलपति भालमाहते खं द्वेष्टीष्टानपि परदेशमप्युपैति ।। ७७ ॥ धिनोति प्रीणयति । कोसौ ? कारुकः । कम् ? गृहजनं भार्यादिलोकं तथोत्तमर्ण धनिकं तथान्यानपि संबन्धिसुहृदादीन् । कैः ? धनैव्यैः । किंविशिष्टैः ? आप्तैरिव हस्तगतैर्यथा । किंविशिष्टः सन् ? आशावान भविष्यदर्थवान्छावान् । अद्य श्वो वा लप्स्येहं कर्मादिमूल्यमिति प्रत्याशायुक्तः । पुनः किंविशिष्टः ? सरसः सहर्षः । छिन्नाशः खण्डितप्रत्याशः पुनरसौ विलपति परिदेवनं करोति, तथाऽऽहते ताडयति । किं तत् ? भालं निलाटम् । किंविशिष्टम् ? स्वं निजम् । “आजौ यमहसौ स्वाङ्गकमको च" इत्यात्मनेपदम् । तथा द्वेष्टि द्वेषविषयान् करोति । कान ? इष्टानपि प्रेयान् कलत्रादीन् । तथा परदेशमप्युपैति देशान्तरमपि गच्छति । अन० ध० ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy