________________
___ अनगारधर्मामृते
वृद्ध्याजीवं विचिकित्सति
वृद्धिलुब्ध्याधमणेषु प्रयुज्यार्थान् सहासुभिः ।
तदापच्छङ्कितो नित्यं चित्रं वाधुषिकश्चरेत् ॥ ७४॥ चित्रमाश्चर्यमिदं यञ्चरेद् व्याप्रियेत् । कोसौ ? वार्द्धषिको वृद्ध्याजीवः । किंविशिष्टः सन् ? नित्यं तदापच्छङ्कितो नित्यं शश्वत् तस्याधमर्णस्यापत्सु शङ्कितः संजातशङ्कः । किं कृत्वा ? प्रयुज्य न्यस्य । कान् ? अर्थान् धनानि । केषु ? अधमर्णेषु धारणिकेषु । कया ? वृद्धिलुब्ध्या कलान्तरलोभेन । कथम् ? सह । कैः ? असुभिः प्राणैः । यः किल परत्र प्राणान् प्रयुक्ते स कथं स्वयं चरतीति चित्रमित्यनुद्योत्यते । सेवां गर्हतेखे सद्वत्तकुलश्रुते च निरनुक्रोशीकृतस्तृष्णया, खं विक्रीय धनेश्वरे रहितवीचारस्तदाज्ञावशात् । वर्षादिष्वपि दारुणेषु निबिडध्वान्तासु रात्रिष्वपि, व्यालोग्रावटवीष्वपि प्रचरति प्रत्यन्तकं यात्यपि ॥ ७५॥ प्रचरति प्रसर्पति । कोसौ ? सेवकः । केषु ? वर्षादिषु प्रावृदशीतोष्णकालेषु । किंविशिष्टेषु ? दारुणेष्वपि भीष्मेष्वपि । तथा रात्रिषु प्रचरति । किंविशिष्टासु ? निबिडध्वान्तास्वपि शूचीमुखाग्रनिर्भेद्यान्धकारास्वपि । तथाऽटवीष्वरण्येषु प्रचरति । किंविशिष्टासु ? व्यालोग्रास्वपि श्वापदभुजगरौद्रास्वपि । न केवलं तत्र तत्र प्रचरति, यात्यपि गच्छति च सेवकः । कम् ? प्रत्यन्तकं यमाभिमुखम् । कस्मात् ? तदाज्ञावशाद् धनेश्वरादेशपारवश्यात् । किंविशिष्टः सन् ? रहितवीचारस्त्यक्तयुक्तायुक्तविवेकः । किं कृत्वा ? विक्रीय आयत्तं कृत्वा । कम् ? स्वमात्मानम् । कसिन् ? धनेश्वरे वित्तपतौ नृपत्यादौ । किंविशिष्टो यतः ? निरनुक्रोशीकृतो निर्दयीकृतः । कया ? तृष्णया लोभेन । क ? स्वे आत्मनि । न केवलं स्वे, सद्वृत्तकुलश्रुते च सदाचारेऽभिजने शास्त्रे च ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org