________________
प्रथमोऽध्यायः।
कृषिपशुपाल्यवणिज्याभिरुभयलोकभ्रंशं दर्शयतियत्संभूय कृषीवलैः सह पशुप्रायैः खरं खिद्यते, यद्यापत्तिमयान् पशूनवति तदेहं विशन् योगिवत् । यन्मुष्णाति वमन्यमूनिव ठककूरो गुरूणामपि, भ्रान्तस्तेन पशूयते विधुरितो लोकद्वयश्रेयसः ॥ ७२ ॥ पशूयते पशुमिवात्मानमाचरति । कोसौ ? भ्रान्तो विपर्यस्तमतिर्गतवयाः। किंविशिष्टो यतः ? विधुरितो वियोजितः। कस्मात् ? लोकद्वयश्रेयस ऐहिकामुत्रिककल्याणात् । केन? तेन कर्षणादिकर्मत्रयेण । यत्किम् ? यत्खिद्यते श्राम्यति । कोसौ ? गतवयाः। कथम् ? खरं तीव्रम्। किं कृत्त्वा ? संभूय मिलित्वा । कथम् ? सह । कैः ? कृषीवलैः कर्षकैः। किं विशिष्टैः ? पशुप्रायैराहारादिसंज्ञापनत्वाद्गवादितुल्यैः । यच्चावति रक्षति गतवयाः । कान् ? पशूनजाश्वोष्ट्रादीन् । किंविशिष्टान् ? व्यापत्तिमयान् । व्यापत्तयः प्रचुरा येषु । विविधविपत्प्रचुरानित्यर्थः । किं कुर्वन् ? विशन् प्रविशन् । किम् ? तद् देहं तेषां पशूनां शरीरम् । किंवत् ? योगिवत् । यथारब्धयोगः परपुरप्रवेशं करोति तथायमपीत्यर्थः । यच्च मुष्णात्यसौ । कानि ? वसूनि धनानि । केषाम् ? गुरूणां दीक्षकाचार्यमातापित्रादीनाम् । न परमितरेषामित्यपिशब्दार्थः । कानिव ? असूनिव प्राणतुल्यान् । किंविशिष्टो यतः ? ठककूरः। ठकः खारपटः । तद्वत्क्रूरो नृशंसः। धनलुब्धस्य देशान्तरवाणिज्यमपवदति
यत्र तत्र गृहिण्यादीन्मुक्त्वापि वान्यनिर्दयः। .
न लयति दुर्गाणि कानि कानि धनाशया ॥ ७३ ॥ कानि कानि दुर्गाण्यटवीगिरिसरिदादीनि न लङ्घयति नातिकामति ? सर्वाण्यपि लङ्घयतीत्यर्थः । कः ? गतवयाः । कया ? धनाशया। किंकृत्त्वा? मुक्त्वा त्यक्त्वा । कान् ? गृहिण्यादीन् भार्यापत्यमात्रादीन् । क्व ? यत्र तत्र अपरीक्षितेपि स्थाने । अपिशब्दात्सह गृहीत्वापि । कथंभूतो भूत्वा ? स्वान्यनिर्दय आत्मनि सहायपरिजनपश्वादिषु च कृपामकृत्त्वा । क्षुत्पिपासाशीतोष्णादिभिः पीडयित्वेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org