________________
६२
अनगारधर्मामृते
श्यंभाविनी स्फीतिर्यस्य । स्फीतिशब्दोऽव्युत्पन्नः । तथा च लक्ष्यः स्व. स्फीतिव्याप्तवसुमतीसीमः ।
इदानीं मध्यावस्थामेकादशभिः पद्यैर्धिक्कुर्वाणः प्रथमं तावदपत्यपोषणाकुलमतेर्धनार्थितया कृष्यादिपरिक्लेशमालक्षयति
यत्कन्दर्पवशंगतो विलसति स्वैरं वदारेष्वपि, प्रायोऽहंयुरितस्ततः कटु ततस्तुग्धाटको धावति । अप्यन्यायशतं विधाय नियमाद्भर्तु यमिद्धाग्रहो, वर्धिष्ण्वा द्रविणाशया गतवयाः कृष्यादिभिः प्लष्यते॥७१॥ धावति त्वरया प्रवर्तते । कोसौ ? तुग्धाटकस्तुजामपत्यानां धाटकोऽवस्कन्दः । धाटीति यावत् । कथम् ? इतस्ततो यत्र तत्र स्वार्थे । कथंकृत्त्वा ? कटु अनिष्टम् । कथम् ? प्रायो बाहुल्येन । किं विशिष्टोसौ यतः ? अहंयुरहंकाराविष्टः । कस्मात् ? ततस्तस्मात् । यत्किम् ? यद्विलसति क्रीडति । कोसौ ? युवा । केषु ? स्वदारेषु धर्मपल्याम् । किं पुनर्भोगपज्यामित्यपिशब्दार्थः । कथम् ? स्वैरं स्वच्छन्दम् । किंविशिष्टः सन् ? गतः प्राप्तः । कम् ? कन्दर्पवशं कामाधीनत्वम् । कामलक्षणं यथा
संकल्परमणीयस्य प्रीतिसंभोगशोभिनः ।
रुचिरस्याभिलाषस्य नाम काम इति स्मृतम् ॥ यं तुग्धाटकं भर्तुकामः कीदृशः क्रियते इत्याह-नुष्यते दह्यते । कोसौ ? गतवयास्तारुण्यमतीतः पुमान् । कैः ? कृष्यादिभिः कृषिपशुपाल्यादिकर्मभिः । कया? द्रविणाशया धनलिप्सया । किंविशिष्टया? वार्धिष्ण्वा वर्धनशीलया । किंविशिष्टः सन् ? इद्धाग्रहो दीप्ताभिनिवेशः । किं कर्तुम् ? भर्तु पोषयितुम् । कम् ? यं तुग्धाटकम् । कस्मात् ? नियमादवश्यंभावात् । किं कृत्वा ? विधाय कृत्वा । किं तत् ? अन्यायशतम् । अन्यायः स्वामिद्रोह मित्रद्रोहविश्वसितवञ्चनचौर्यादिभिरर्थार्जनम् । अन्यायानां शतं बहुत्वमऽन्यायशतम् । तदपि कृत्त्वा, न परं न्यायमित्यपिशब्दार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org