________________
प्रथमोऽध्यायः।
च्छीलं मनो ययोः । किं कृत्वा ? प्राप्य आसाद्य । किं तत् ? तारुण्यं यौवनम् । कैः ? पित्रोरेव मृषामनोरथशतैः । मनोरथा इदमिदमस्याऽस्माद्वा संपत्स्यते इति चेतसासकृदावर्तमाना असंभाव्यप्राप्तयोर्थाः । मृषा मिथ्यारूपा मनोरथाः तेषां शतैः समूहैः । किंविशिष्टो यतः ? उन्मार्गगस्थिवर्गप्रतीपाचरणनिष्ठः । येन किम् ? येन दुराचारेण मजति बुडति निरुच्छासं पतति । क? दुर्गतौ दारिद्ये नरके वा । कथम् ? धिक् । किंविशिष्टः सन् ? भूरिभिबबीभिर्विडम्बनाभिः खरारोपणादिविगोपकैः कलुषितः संक्लिष्टचित्तो यः स भूरिविडम्बनाकलुषितः। किं कुर्वन् ? क्लिनन् विबाधमानः । कान् ? पितॄन् पितामहादीन् । किविशिष्टान् ? उद्धधाम्नो विपुलतेजस्कान् प्रशस्तस्थानान्वा । तारुण्येप्यविकारिणः प्रणौति
धन्यास्ते सरवाडवानलशिखादीप्रः प्रवल्गरल,क्षाराम्बुर्निरवग्रहेन्द्रियमहाग्राहोभिमानोर्मिकः । 'यैर्दोषाकरसंप्रयोगनियतस्फीतिः स्वसाचक्रिभि,
स्तीर्णो धर्मयशःसुखानि वसुवत्तारुण्यघोरार्णवः ॥७॥ ते नरा धन्याः । तेभ्यः श्लाघामहे इत्यर्थः । यैः किम् ? यैस्तीर्णो । लचितः पश्चात्कृतः । कोसौ ? तारुण्यघोरार्णवः । तारुण्यं घोरो भयकरोऽर्णवः समुद्र इव । किं कुर्वाणैः ? स्वसाञ्चक्रिभिरात्मायत्तानि कु. वाणैः । कानि? धर्मयशःसुखानि । किंवत् ? वसुवद् धनानि यथा । किंविशिष्टोसौ ? स्मरेत्यादि । सरः कामो वाडवानल इव, जलस्येव शरीरस्य शोषकत्वात् । तस्य शिखा ज्वालाः । ताभिर्दीप्रो दीपनशीलः । तथा प्रबलाद्वलक्षाराम्बुः । बलं वीय क्षाराम्बु लवणजलमिवाहृद्यत्वाद् बलक्षाराम्बु । प्रवलगत् प्रकर्षेण सदर्पमुद्यद् बलक्षाराम्बु यस्य । तथा नीत्यादि । निरवग्रहा निरङ्कुशचारिण इन्द्रियमहाग्रहा अक्षबृहजलचरा यस्मिन् । तथाऽभिमाना ऊर्मय इवानियतोत्थानत्वाद् यस्मिन् सोभिमानोर्मिकः । तथा दोषाकरसंप्रयोगनियतस्फीतिः । दोषाकरो दुर्जनश्चन्द्रश्च । स्फीतिः प्रतिपत्तिवृद्धिश्च । दोषाकरस्य संप्रयोगः संगतिः । तेन नियताऽव
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org