SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६० अनगारधर्मामृते स्मात् ? यस्मात्कुतश्चित् पतद्भाजनशब्दादेः । तथा लिम्पन उपदिहानः । किं तत् ? स्वाङ्गं निजदेहम् । किं पुनरासनादिकमित्यपिशब्दार्थः । केन ? स्वशकता निजपुरीषेण । कथम् ? स्वयमात्मना । तथा रुदन् रोदनं कुर्वन् । किंवत् ? हतवत् ताडित इव । किंविशिष्टः सन् ? व्याषिद्धो निषिद्धः । क ? अहिते मृभक्षणादौ । कथंभूतो भूत्वा ? लालाविलास्यो लालाभिस्थूत्कस्रवैराविलं कलुषमास्यं मुखं यस्य । कौमारं तिरस्करोति धूलीधूसरगात्रो धावन्नवटाश्मकण्टकादिरुजः। प्राप्तो हसत्सहेलकवर्गममषन् कुमारः स्यात् ॥६८॥ स्यात् । कोसौ ? कुमारो बाल्ययौवनान्तर्वयोवर्तिमर्त्यः । किं कुर्वन् ? अमर्षन् ईय॑न् । कम् ? हसत्सहेलकवर्गम् । हसन्तश्च ते सहेलकाश्व सहक्रीडितारो डिम्भाः । तेषां वर्ग समूहम् । किंविशिष्टः सन् ? प्राप्तः । काः ? अवटाश्मकण्टकादिरुजः । अवटो गर्तः । अश्मानः पाषाणाः । कण्टकस्तीक्ष्णशल्यम् । आदिशब्दात्काष्ठशर्करादयः । तेषां रुजस्तत्कृताः पीडाः । किं कुर्वन् ? धावन् वेगेन गच्छन् । कथंभूतो भूत्वा ? धूलीधूसरगानो रथ्यारजःपाण्डुरितशरीरः। यौवनमपवदति पित्रोः प्राप्य मृषामनोरथशतैस्तारुण्यमुन्मार्गगो, दुर्वारव्यसनाप्तिशङ्किमनसोर्दुःखार्चिषः स्फारयन् । तत्किचित्प्रखरसरः प्रकुरुते येनोद्धधाम्नः पितॄन् , क्लिनन् भूरिविडम्बनाकलुषितो धिग्दुर्गतौ मजति ६९ प्रकुरुते आचरति । कोसौ ? युवा। किं तत् ? तत्किचिदऽवाच्यं कर्म । किंविशिष्टः सन् ? प्रखरस्मरस्तीवकामवेगातः । किं कुर्वन् ? स्फारयन् विस्तारयन् । काः ? दुःखार्चिषो दुःखज्वालाः । कयोः ? पित्रोजननीजनकयोः । किंविशिष्टयोः ? दुर्वारव्यसनाप्तिशङ्किमनसोः। दुर्वारं वारयितुमशक्यं व्यसनं विनिपातः । तस्याप्तिः प्रतिलम्भः । तां शङ्कते त Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy