________________
प्रथमोऽध्यायः।
maiwwwmwar जन्मानन्तरभाविक्लेशं भावयति
जातः कथंचन वपुर्वहनश्रमोत्थ,दुःखप्रदोच्छ्वसनदर्शनसुस्थितस्य । जन्मोत्सवं सृजति बन्धुजनस्य यावद् ,
यास्तास्तमाशु विपदोनुपतन्ति तावत् ॥ ६६ ॥ अनुपतन्ति व्यामुवन्ति । काः ? विपद आपदः । किंविशिष्टाः ? यास्ताः प्रसिद्धाः फुल्लिकान्तगोपिकाप्रभृतयः । कम् ? तं जातमात्रमनुव्यम् । कथम् ? आशु शीघ्रम् । कथम् ? तावत्। यावत्किम् ? यावत्सजति करोति जातमात्रो मर्त्यः । कम् ? जन्मोत्सवं जननानन्दम् । कस्य ? बन्धुजनस्य । किं विशिष्टस्य ? वपुरित्यादि । वपुषः शरीरस्य वहनेन श्रमः खेदो वपुर्वहनश्रमः । तस्मादुत्था उत्थानं यस्य तत्तदुत्थम् । तच्च तदुःखप्रदं च वपुर्वहनश्रमोत्थदुःखप्रदम् । तच्च तदुच्छसनमुच्छासः। तस्य दर्शनमुपलम्भः । तेन सुस्थितस्य समाश्वसितस्य । किंविशिष्टः सन् ? जातः प्रसूतः । कथम् ? कथंचन महता कष्टेन । बाल्यं जुगुप्सतेयत्र कापि धिगत्रपो मलमरुन्मूत्राणि मुश्चन्मुहु,यत्किंचिद्वदनेर्पयन् प्रतिभयं यस्मात्कुतश्चित्पतन् । लिम्पन्वाङ्गमपि स्वयं स्वशकृता लालाविलास्योऽहिते, व्याषिद्धो हतवद्रुदन् कथमपि-च्छिद्येत बाल्यग्रहात् ॥६७॥ छियेत वियुज्येत मुक्तो भवेत् । कोसौ ? मर्त्यः । कस्मात् ? बाल्यग्रहात् शैशवग्रहावेशात् । कथम् ? कथमपि महता कष्टेन । किं कुर्वन् ? मुञ्चन् विसृजन् । कानि ? मलमरुन्मूत्राणि पुरीषाधोवातप्रश्रावान् । क? यत्र क्वापि अनियतस्थानशयनासनादौ । किंविशिष्टः ? अत्रपो निर्लजो यतः । कथम् ? मुहुर्वारंवारम् । कथम् ! धिर निन्द्यम् । तथाऽर्पयन् प्रवेशयन् । किं तत् ? यत्किचिद् भक्ष्यमभक्ष्यं वा । क ? वदने मुखे । तथा पतन गच्छन् । किं तत् ? प्रतिभयमतर्कितोपस्थितनासम् । क.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org