________________
प्रथमोऽध्यायः।
निश्चयम् । किंविशिष्टः सन् ? व्यवहारपराचीनो व्यवहारपराङ्मुखः । तगृहित इत्यर्थः । व्यवहारालम्बनत्यजनावधिमभिधत्ते
भूतार्थं रजुवत्स्वैरं विहर्तुं वंशवन्मुहुः ।
श्रेयो धीरैरैभूतार्थो हेयस्तद्विहतीश्वरैः ॥ १०१॥ श्रेय आलम्बनीयः । कोसौ ? अभूतार्थो व्यवहारनयः । कैः ? धीरेरकातरैर्मुमुक्षुभिः । कथम् ? मुहुः पुनः पुनः । किंवत् ? वंशवत् चारणैर्हस्तावष्टम्भनवेणुर्यथा। किं कर्तुम् ? विहतु संचरितुम् । कम् ? भूतार्थ विश्वयनयम् । कथम् ? स्वैरं स्वच्छन्दम् । निरालम्बनमित्यर्थः । किंवत् ? रज्जवश्मि यथा । तथा हेयस्त्याज्यो वंश इवाभूतार्थो मुमुक्षुभिश्चारगैरिव । किंविशिष्टैः ? तद्विहृतीश्वरैः तत्र रजाविव भूतार्थे विहृतिः संचरणम् । तत्रेश्वरैः समर्थैः । व्यवहारनिश्चयं लक्षयति
काद्या वस्तुनो भिन्ना येन निश्चयसिद्धये ।
साध्यन्ते व्यवहारोसौ निश्चयस्तदभेददृक् ॥ १०२ ॥ स्यात् । कोसौ ? असौ व्यवहारः । येन किम् ? येन साध्यन्ते ज्ञाप्यन्ते । के ? कर्नाद्याः कर्तृकर्मकरणादयः कारकविशेषाः। किंविशिष्टाः ? भिन्नाः पृथग्भूताः । कस्मात् ? वस्तुनो जीवादेः । कस्यै ? निश्चयसिद्धये भूतार्थनयप्रात्यर्थम् । तथा निश्चयः स्यात् । किम् ? तदभेदक तेषां कादीनामभेदेन वस्तुनोनर्थान्तरत्वेन दृक् प्रतिपत्तिः। शुद्धाशुद्धभेदाविविधस्यापि निश्चयस्योल्लेखं दर्शयति
सर्वेपि शुद्धबुद्धकस्वभावाश्चेतना इति ।
शुद्धोऽशुद्धश्च रागाद्या एवात्मेत्यस्ति निश्चयः ॥१०३॥ अस्ति भवति । कोसौ ? निश्चयः। किंविशिष्टः ? शुद्धः । कथम् ? इति एवंस्वरूपः । भवन्ति । के ? चेतना जीवाः । किंविशिष्टाः ? शुद्धबुद्धैकस्वभावाः शुद्धो रागादिरहितो बुद्धो ज्ञानपरिणत एकः केवलः स्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org