________________
५४
अनगारधर्मामृते
निश्चितं कथयाम्यहम् । कम् ? तमागमप्रसिद्धमुदनमुच्छ्रितमुग्रं दुःसहमुदयं विपाकम् । कस्य ? दुष्कर्मणो दुष्कृत्यस्य । क ? पार्श्वे भगवति त्रयोविंशतीर्थकरे । किंविशिष्टस्य ? तदित्यादि । ते प्रसिद्धास्तादृशः प्रतिकू. लानुकूला वज्रपाताद्भुतपञ्चवर्णजलदात्युग्रवात्यायुधवातघाताप्सरोवर्गोपचारज्वलज्वलनजलधिव्यालोपनिपातभूतनृत्यादयो विसृष्टचण्डाशनिवृष्टितरुपातघोरमेघपटलादयश्च तत्तादृशश्च ते कमठोपसर्गाः कमठेन पूर्ववैरिणा नानाभवान् भ्रान्त्वा महासुरत्वं प्राप्तेन क्रियमाणा उपसर्गा उत्पातास्तत्ताहकमठोपसर्गाः । तेषां लहरी परम्परा । तस्याः सर्गो निर्माणम् । तत्र प्र. गल्भः समर्थ ऊष्मा दुःसहवीर्यानुभावो यस्य तत्ताडक्कमठोपसर्गलहरीसर्गप्रगल्भोष्म तस्य । किंवा निर्वच्म्यहम् । किं तत् ? सख्यं मैत्रीकम् । किंविशिष्टम् ? उरु महत् । पुनः किंविशिष्टम् ? विसारि सर्वत्र सर्वदा स्वकार्यकारि । कस्य ? धर्मस्य । किंविशिष्टस्य ? तादृशेत्यादि । तादृशी शक्रनियुक्तयक्षधरणेन्द्रपद्मावति(ती)भिरनिवार्या दुर्दशा पार्श्वप्रभोर्दुरवस्था । तस्या विलसितं स्वैरदुःखकरणसामर्थ्यम् । तस्य प्रध्वंसे प्रतिबन्धे दीपं दीपनशीलमुपर्युपरि ज्वलदोजस्तेजो यस्य स तादृशदुर्दशाविलसितप्रध्वंसदीप्रौजास्तस्य । वा अथवा युक्तमेतत् । न अस्ति । कासौ ? सीमा अवधिः । केषाम् ? साधीक्सामतिशयशालिनाम् । क ? इह लोके ।
अपि चप्रद्युम्नः षडहोद्भवोऽसुरभिदः सौभागिनेयः क्रुधा, हृत्वा प्राग्विगुणोऽसुरेण शिलयाऽऽक्रान्तो वने रुन्द्रया । तत्कालीनविपाकपेशलतमैः पुण्यैः खगेन्द्रात्मजी,कृत्याऽलम्भ्यत तेन तेन जयिना विद्याविभूत्यादिना ५८
अलम्भ्यत योज्यते स्म । कोसौ ? प्रद्युम्नः । कैः ? पुण्यैः पुराकृतसुकृतैः । किंविशिष्टैः ? तस्मिन्काले भवस्तत्कालीनस्तादात्विकः । स चासौ विपाक उदयश्च तत्कालीनविपाकः । तेन पेशलतमैरत्यन्तमधुरैस्तत्कालीनविपाकपेशलतमैः । केनालम्भ्यत ? तेन तेन तच्चरितप्रबन्धप्रसिद्धन विद्याविभूत्यादिना विद्याभिः खेचरत्वादिकर्मक्षमाभिर्विभूतिभिः षोडशाद्भुतलाभैः, आदिशब्दात् तत्तदापत्प्रशमनैश्च । किंविशिष्टेन ? जयिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org