________________
प्रथमोऽध्यायः ।
प्रतीकारे चेत्यपिशब्दार्थः । किं कुर्वति ? घटयति संयोजयति सति । कान् ? भावान् स्वफलभूतान हिविषकण्टकादीनान् । किंविशिष्टान् ? उच्चैः कटून् हालाहलप्रख्यान् । चतुर्धा हि पापरसो निम्बकांजीरविषहालाहलत्तुल्यत्वात् । श्लोकः
लतादार्वस्थिपाषाणशक्तिभेदाच्चतुर्विधः। स्याद् घातिकर्मणां पाकोन्येषां निम्बगुडादिवत् ॥ कथं कृत्वा घटयति ? उद्भटं प्रकटदर्पाटोपं कृत्वा । ननु धर्मे निाजबन्धौ सत्यपि किमित्यधर्मशत्रुरेवं विलसतीत्यत्राह-यदित्यादि । इतिहेतौ । यतो यत्कर्मार्जितं बद्धम् । केन? जीवेन। कया ? कषायकर्मठतया । कर्मणि घटते कर्मठः कर्मशूरः । कषायैः कर्मठः कषायकर्मठः क्रोधादिभिर्मनोवाक्कायव्यापारेषु घटमानो जीवः । तस्य भावस्तत्ता, तया । तत्कर्म ध्रुवमवश्यं न ऋच्छति न गच्छति । कम् ? क्षयं विश्लेषम्। किविशिष्टं सत् ? अभुक्तमननुभूतम् । ततश्च निर्जरेति वचनात् । यद्येवं सति धर्मः कर्मानुवृत्तिस्वस्वाम्युपेक्षापरो न स्यात्तर्हि किं कुर्यादित्याह-किंतु अपि तु स्नौति क्षरति । कोसौ ? धर्मः। काम् ? सुधाममृतम् । लक्षणया सर्वाङ्गीणमानन्दम् । क? स्वधानि स्वाश्रयभूते पुंसि । कथं कृत्वा ? अस्फ. टं गूढं बाह्यलोकानामविदितम् । प्रकटं कस्मात्सुधां न स्त्रौतीत्यत्रोत्प्रेक्षामाह-ततो दारुणकर्मणस्त्रसन्निव बिभ्यदिव । अत्रेयं भावना-बाह्या दुर्वारदुष्कृतपाकोत्थमुपर्युपर्युपसर्गमेव पश्यन्ति न पुनः पुंसो धर्मेणानुगृ. ह्यमाणसत्त्वोत्साहस्य तदनभिभवम् । पापपुण्ययोरपकारोपकारौ दृष्टान्तद्वारेण द्रढयितुं वृत्तद्वयमाहतत्ताहक्कमठोपसर्गलहरीसर्गप्रगल्भोष्मणः, किं पार्श्वे तमुदग्रमुग्रमुदयं निर्वच्मि दुष्कर्मणः । किंवा तादृशदुर्दशाविलसितप्रध्वंसदीयौजसो, धर्मस्योरु विसारि सख्यमिह वा सीमा न साधीयसाम्५७ अत्र किंशब्दौ परस्परापेक्षौ प्रश्नवितर्कार्थों व्याख्येयौ । किं निर्वच्मि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org