________________
५२
अनगारधर्मामृते
धर्ममाचरतो विपदुपतापे सति तन्निवृत्त्यर्थं धर्मस्यैव बलाधानं कर्तव्यमित्यनुशास्ति
व्यभिचरति विपक्षक्षेपदक्षः कदाचिइलपतिरिव धर्मो निर्मलो न खमीशम् । तदभिचरति काचित्तत्प्रयोगे विपञ्चे
त्स तु पुनरभियुक्तैस्त पाजे क्रियेत ॥ ५५ ॥ न व्यभिचरति । न विरुद्धाभिमुखं व्यवहरति । न विरुद्धं करोती. त्यर्थः । कोसौ ? धर्मः। कम् ? स्वमात्मीयमीशं प्रयोक्तारम् । किंविशिष्टः ? निर्मलो निरतिचारः । पुनः किंविशिष्टः ? विपक्षक्षेपदक्षोऽधर्माभिभवनसमर्थो यतः । कथम् ? कदाचित् क्वचिदपि काले । क इव ? बलपतिरिव यथा शत्रुनिराकरणक्षमः सर्वोपधाविशुद्धश्च बलपतिः सेनापतिरत्नं जातुचित्स्वमीशं चक्रिणं न व्यभिचरति तत् तस्मात्तत्प्रयोगे तस्मिन्धर्मे बलपतौ च व्यापारिते सति काचिद् दैवी मानुषी तैरश्वीन्यचेतनी वा विपदापचेद्यदि अभिचरति अभितप्तुं प्रवर्तते तर्हि स तु स एव धर्मों बलपतिश्च पुनर्भूयोऽभियुक्तैरुधुक्तैः सद्भिः पुंभिरुपाजे क्रियेत आहितबलः कर्तव्यः। दुर्निवारेपि दुष्कृते विलसति धर्मः पुमांसमुपकरोत्येवेत्युपदिशति
यजीवेन कषायकर्मठतया कर्मार्जितं तद् ध्रुवं, नाभुक्तं क्षयमृच्छतीति घटयत्युचैः कटूनुद्भटम् । भावान् कर्मणि दारुणेपि न तदेवान्वेति नोपेक्षते,
धर्मः किंतु ततस्त्रसन्निव सुधां स्नौति स्वधाम्न्यस्फुटम्॥ नान्वेति नानुवर्तते । कोसौ ? धर्मः । किं तत् ? तदेव दारुणं कर्म । तत्सहकारी न भवतीत्यर्थः। नोपेक्षते नाप्यवधीरयति धर्मस्तथाविधकमैणा बाध्यमानं स्वस्वामिनम् । क सति ? कर्मणि, प्रक्रमाद् दुष्कृते । किंविशिष्टे ? दारुणे अशक्यप्रतीकारे । न केवलं दुःशकप्रतीकारे सुशक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org