________________
प्रथमोऽध्यायः।
भवति । किं तत् ? तत्पुण्यविस्फूर्जितं पुराकृतसुकृतानुभावः । यत् किम् ? यदवधीद् हन्ति स्म । कोसौ ? रामः सीतापतिः । कम् ? तं दशास्यं रावणम् । केन ? कीशबलेन वानरसैन्येन । किंविशिष्टः सन् ? क्लिष्टः संतप्तः । केन ? शोकविषार्चिषा शोकगरलज्वालया। किं कुर्वन् ? हरन् अतिक्रामन् । कम् ? कालम् । कैः ? त्वक्फलैर्वल्कलैरारण्यैः सस्यैश्च । किंविशिष्टैः अनुजहतैर्लक्ष्मणेनानीतैः । किंविशिष्टः सन् ? राज्यश्रीविमुखीकृतः स्वपित्रा दशरथराजेन राज्यलक्ष्मीतो निवर्तितः । पुनः किं कुर्वन् ? असंभावयन् अमन्यमानः। कम् ? संयोगम् । कयासह ? प्रियया सीतया किंविशिष्टया ? दशास्यहृतया रावणेनापहृत्य नीतया । क ? स्वप्नेपि स्वप्नावस्थायाम् । किं पुनर्जाग्रदवस्थायामित्यपिशब्दार्थः। पुनरपि किंविशिष्टः ? उज्जीवित उच्छुसितः । केन ? हनुमता आञ्जनेयेन । कया? तद्वार्तया तस्याः प्रियायाः कथाप्रसङ्गेन । धर्मस्य नरकेपि घोरोपसर्गनिवर्तकत्वं प्रकाशयति
श्लाघे कियद्वा धर्माय येन जन्तुरुपस्कृतः।
तत्तागुपसर्गेभ्यः सुरैः श्वऽपि मोच्यते ॥ ५४॥ . वा अथवा कियत् किंपरिमाणं श्लाघे स्तौम्यहम् । कस्मै ? धर्माय मया धर्मस्य माहात्म्यं वर्णयितुमशक्यमित्यर्थः । येन किम् ? येन धर्मेण उपस्कृत आहितातिशयो जन्तु वो मोच्यते विश्लेष्यते। कैः ? सुरैः कल्पवासिदेवैः । केभ्यः ? तत्ताहगुपसर्गेभ्यः । तेभ्यः प्रसिद्धेभ्यस्ताहग्भ्यो नारकैः संक्लिष्टसुरैश्च स्वैरमुदीरितेभ्योतिधोरदुःखहेतुभ्यः । क ? श्वभ्रेपि नरकेपि । ते हि षण्मासायुःशेषे नरकादेष्यतां तीर्थकराणामुपसर्ग निवारयन्ति । स्वर्गादेष्यतां च तेषामम्लाना मन्दारमालाः स्युरित्यपिशब्देन गृह्यते । तथा चोक्तम्
तित्थयरसत्तकम्मे उवसग्गणिवारणं कुणंति सुरा।
छम्माससेस णरये सग्गे अमिलाणमालाओ॥ १ तीर्थकरसत्वकर्मणि उपसर्गनिवारणं कुर्वन्ति सुराः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org