________________
अनगारधर्मामृते
किल एवं ह्यागमे श्रूयते । व्यवाहत परि(ये)णीयत । कोसौ ? सगरो द्वितीयचक्रवर्ती । काम् ? तिलकेशी तत्संज्ञां विद्याधरकन्या स्त्रीरत्नम् । कैः कर्तृभिः ? खेटैः सहस्रनयनादिविद्याधरैः । किं कृत्वा ? प्रभूकृत्य स्वामित्वं नीत्वा तत्सेवकीभूय । कस्मात् ? पुण्यात् सुकृतेन हेतुना। किं विशिष्टः सन् ? एकोऽसहायः । एषा कथा द्वे उत्तरे च पद्मचरिताज्ज्ञातव्याः।
कीर्णे पूर्णघने सहस्रनयनेनान्वीर्यमाणोऽजितं, सर्वज्ञं शरणं गतः सह महाविद्यां श्रिया राक्षसीम् । दत्त्वा प्राग्भवपुत्रवत्सलतया भीमेन रक्षोन्वय,
प्राज्योऽरच्यत मेघवाहनखगः पुण्यं क जागर्ति न ५२ अरच्यत कृतः । कोसौ ? मेघवाहनखगः तोयदवाहनो नाम विद्याधरः । किंविशिष्टः ? रक्षोन्वयप्राज्यो राक्षसवंशस्यादिपुरुषः । केन ? भीमेन पूर्णघनचरेण भीमनाम्ना राक्षसेन्द्रेण । कया ? प्राग्भवपुत्रवत्सलतया पूर्वजन्मात्मजस्नेहलत्वेन । किं कृत्वा ? दत्त्वा वितीर्य । काम् ? महाविद्याम् । किंनाम्नीम् ? राक्षसीम् । कथम् ? सह । कया? श्रिया नवग्रहाख्यहारलङ्कालकोदराख्यपुरद्वयकामगाख्यविमानप्रभृतिसंपदा सह । किंविशिष्टः सन् ? गतः प्रपन्नः । कम् ? सर्वज्ञम् । किम् ? शरणम् । किनामानम् ? अजितं समवसरणस्थं द्वितीयतीर्थकरम् । किं क्रियमाणः ? अन्वीर्यमाणस्तरलैरनुद्रूयमाणः । क सति ? पूर्णधने सुलोचन. धातिनि स्वजनके । किंविशिष्टे ? कीर्णे हते । केन ? सहस्रनयनेन तन्नाम्ना सुलोचनपुत्रेण । युक्तं वैतत् । क्व स्वकार्ये सुखसंपादने दुःखोच्छेदने वा न जागर्ति न व्याप्रियते । किं तत् ? पुण्यं पुराकृतं सुकृतम् । सर्वत्र जागर्तीत्यर्थः ।
राज्यश्रीविमुखीकृतोऽनुजहतैः कालं हरंस्त्वक्फलैः, संयोगं प्रियया दशास्सहतया स्वप्नेप्यसंभावयन् । क्लिष्टः शोकविषार्चिषा हनुमता तद्वातंयोजीवितो, रामः कीशवलेन यत्तमवधीत् तत्पुण्यविस्फूर्जितम् ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org