________________
प्रथमोऽध्यायः।
४९
मुखे । दुर्गमा दुःखेन लध्या अलध्या वा ग्रावाणः पाषाणाः पर्वता वा दुर्गमग्रावाणः । तैर्ग्रन्थिलानि निम्नोन्नतत्वं नीतानि दिङ्मुखानि ककुभारम्भा यस्मिन् । अपिः समुच्चये विस्मये वा ।
धर्मो नानादुरवस्थाप्राप्तं नरमुद्धरतीत्याहक्षुत्क्षामं तर्षतप्तं पवनपरिधुतं वर्षशीतातपात, रोगाघ्रातं विषात ग्रहरुगुपहतं मर्मशल्योपतप्तम् । दूराध्वानप्रभग्नं प्रियविरहबृहद्भानुदून सपत्न,व्यापन्नं वा पुमांसं नयति सुविहितः प्रीतिमुद्धृत्य धर्मः॥५०॥ __ नयति प्रापयति । कोसौ ? धर्मः। कम् ? पुमांसं पुरुषम् । काम् ? प्रीतिं प्रमोदम् । किं कृत्वा ? उद्धत्य क्षुधादिदुःखेभ्यो निष्कास्य । किं विशिष्टः सन् ? सुविहितः सम्यगाचरितः । तान्येव विशेषणद्वारेण दर्शयति । तथाहि-क्षुधा बुभुक्षया क्षामं ग्लानम् । तर्षेण तृष्णया तप्तं करालितम् । पवनेन वायुना परि समन्तादू धुतं कम्पितम् । वर्षशीतातपैर्वृष्टितुषारघमैंरातमातुरम् । रोगजरादिभिराघ्रातम् । विषेण गरलेन ऋतं पीडितम् । ग्रहाणां शनैश्वरादीनां ब्रह्मराक्षसादीनां वा रुजा पीडयोपहतमुपप्लुतम् 'विषमं स्पन्दनं यत्र पीडिते रुकूच मर्म तत्" मर्मणि प्रविष्टेन शल्येन का. ण्डादिनोपतप्तं भृशं व्यथितम् । दूरावानेन विप्रकृष्टमार्गगमनेन प्रभग्नमतिश्रान्तम् । अध्वानशब्दोपि मार्गार्थोस्ति । यल्लक्ष्यम्
"करितुरगमनुष्यं यत्र वाध्वानदीनम्"।। प्रियाणां कलत्रपुत्रबन्धुमित्रादीनां विरहेण वियोगेन बृहदानुना वह्निनेव दूनं परितप्तम् । सपत्नैः शत्रुभिर्ध्यापन्नं विविधापत्सु पातितम् । वाशब्दः समुच्चये। ___ उक्तार्थसमर्थनार्थं त्रिभिः श्लोकैः क्रमेण सगर तोयदवाहन-रामभद्रान् दृष्टान्तत्वेनाचष्टे
सगरस्तुरगेणैकः किल दूरं हृतोऽटवीम् । खेटैः पुण्यात्प्रभूकृत्य तिलकेशी व्यवाटत ॥ ५१ ॥ अन० ध०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org