________________
४८
अनगारधामृते
कर्तुम् ? भक्तुं स्वस्वामिनं सेवितुम् । तथा मीलन्ति स्वव्यापारादुप. रमन्ति । काः ? संपदः । क सति ? यन्त्र धर्मे मीलति स्वव्यापारादुपरमति सति । तथा भवन्ति । काः । विपद आपदः कथम् ? अन्यथा वैपरीत्येन वर्तन्ते इत्यर्थः । तत्राधम जाग्रति विपदो जाग्रति पुरुष भक्तं, मीलति च मीलन्ति । इति यथास्वं व्याख्येयम् । पोष्य इत्यनेन चोपमानं लक्षयति । तेनायमों, यथा परिकरे सावधाने राज्ञां सेवनाय वाराङ्गनाः सावधाना भवन्ति, निरवधाने च निरवधानाः । तथा प्रकृतेपीति योज्यम् ।
एवं धर्मस्य सुखसंपादकत्वमभिधायेदानी दुखनिवर्तकत्वं तस्यैव पद्यै. श्चतुर्दशभिः प्रपञ्चयति । तत्र तावदुर्गदेशेषु धर्मस्योपकारं दर्शयति
कान्तारे पुरुपाकसत्त्वविगलत्सत्त्वेम्बुधौ बम्भ्रमत्,ताम्यन्नक्रपयस्युदर्चिषि मरुचक्रोचरच्छोचिषि । संग्रामे निरवग्रह द्विषदुपस्कारे गिरौ दुर्गम,
ग्रावग्रन्थिलदिअखेप्यशरणं धर्मो नरं रक्षति ॥ ४९ ॥ रक्षति । कोसौ? धर्मः। कम् ? नरम् । किंविशिष्टम् ? अशरणमत्राणम् । क ? कान्तारेऽरण्ये दुर्गमार्गे वा । किं विशिष्टे ? पुरुपाकसत्वविगलत्सत्त्वे । पाकसत्त्वाः क्ररजीवाः सिंहव्याघ्रादयः। सरवं मनोगुणः । सत्त्वा वा प्राणिनः । पुरवः प्रचुराः पाकसत्त्वाः पुरुपाकसत्त्वाः । तेभ्यो विगलद्विनश्यत्सत्त्वं विगलन्तो वा सत्वा यस्मिन् तदेवम् । तथा धर्मोऽशरणं नरं रक्षति । क ? अम्बुधौ समुद्रे। किंविशिष्टे ? बम्भ्रमत्ता. म्यन्नक्रपयसि । बम्भ्रमन्तः कुटिलं भृशं वा चरन्तः ताम्यन्तः खिद्यन्तः । ते च ते नका जलचरा बम्भ्रमत्ताम्यन्नकाः। तैरुपलक्षितं पयो जलं यत्र तदेवं तस्मिन् । तथाऽशरणं धर्मो नरं रक्षति । क ? उदर्चिषि ज्वलने । किंविशिष्टे ? मरुञ्चक्रोञ्चरच्छोचिषि। मरुच्चक्रेण वात्यया उच्चरन्त्युच्छलन्ति शोचींषि ज्वाला यस्य तस्मिन् । तथाऽशरणं धर्मो नरं रक्षति । क? संग्रा. मे युद्धे । किविशिष्टे ? निरवग्रहद्विषदुपस्कारे । निरवग्रहो निरङ्कुशो द्विषतां शत्रूणामुपस्कारः प्रतियत्नो वैकृतं वा यस्मिन् । तथाऽशरणं धर्मों नरं रक्षति । क ? गिरी पर्वते । किं विशिष्टे ? दुर्गमनावग्रन्थिलदि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org