________________
प्रथमोऽध्यायः।
अन्न जीव इति धर्मादिति च प्रतिवाक्यं योजनीयम् । जनयति करोति । कोसौ ? जीवः । कौ ? जनकौ मातापितरौ । किंविशिष्टौ ? विश्वपूज्यौ जगतामर्चितौ । किं करिष्यन् ? एष्यन् आगमिष्यन् । कस्याः ? द्योः स्वर्गात् । कस्मात् ? धर्मात् पुण्यविशेषविपाकाद्धेतोः । तीर्थकरे हि जनिष्यमाणे प्रागेव मासषवं तन्माहात्म्येन तत्पितरौ जगत्पूज्यौ भवतः। तथा धर्माज्जीवो गर्भगो गर्भेऽवतीर्णः सन् पितरावतीवातिशयेन जगत्पूज्यौ करोति । तथा प्रभुते प्रकर्षणानुभवति । कोसौ ? जीवः । कान् ? भोगान् इष्टविषयान् । किं विशिष्टान् ? उपहृतान् उपनीतान् । कैः ? हरिभिः सौधर्मादिशझैः । कस्मात् ? धर्मात् । किंविशिष्टः सन् ? जात उत्पन्नः । तथा ईर्ते गच्छति प्राप्नोति । कोसो ? जीवः । काम् ? देवर्षिकीर्ति लौकान्तिकदेवैः क्रियमाणां स्तुतिम् । कस्सात् ? धर्मात् । किं करिष्यन् ? निष्क्रमिष्यन् निष्क्रमितुमिच्छन् । कस्मात् ? मन्दिराद् द्रव्यभावगृहात् । तथा प्रव्रजति दीक्षां गृह्णाति । कोसौ ? जीवः । किंविशिष्टः ? आहितेज्यः । आहिता कृता इज्या पूजा यस्य स एवम् । कैः ? सुरखचरनृपैर्देवविद्याधरभूपैः। कस्मात् ? धर्मात् । तथा प्रशास्ति अव्याहतं शिक्षयति । कोसौ ? जीवः। किं तत् ? त्रिजगत् त्रैलोक्यम् । किं कृत्वा ? प्राप्य । किं तत् ? आ. हन्त्यं जीवन्मुक्तत्वम् । किंविशिष्टः सन् ? ऋषिनुतो गणधरदेवादिभिः स्तुतः । तथा याति गच्छति । कोसौ ? जीवः । काम् ? मुक्ति परमपदम् । कस्मात् ? धर्मात् । धर्मोत्र यो मुख्यतया प्राग्व्याख्यातस्तस्यैव कृत्स्त्रकर्मविप्रतिमोक्षे सामोपपत्तेः ।
धर्मोदयानुदयाभ्यां संपदामिवाधर्मोदयानुदवाभ्यां विपदामुपभोगानुभोगौ भवत इत्याहधर्म एव सतां पोष्यो यत्र जाग्रति जाग्रति । भक्तुं मीलति मीलन्ति संपदो विषदोन्यथा ॥४८॥ पोष्यः पुष्टिं नेतव्यः । कोसौ ? धर्म एव, नाधर्मः । केषाम् ? सतां समीक्ष्यकारिभिरित्यर्थः । यत्र किम् ? यत्र यस्मिन्धर्मे जाग्रति स्वव्यापार कुर्वति सति जाग्रति स्वव्यापारं कुर्वन्ति । काः ? संपदो विभूतयः । किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org